SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ वृत्ति धर्मबिन्दौ चतर्थं परिशिष्टम् २६३ Jain Education International दृष्ट्वा ईर्ष्या मैथुनाभिलाष उत्पद्यते सोऽपि निरुद्धवेदः कालान्तरेण त्रैराशिको भवति । शकुनी वेदोत्कटतया गृहचटक इवाऽभीक्ष्णं प्रतिसेवनां करोति । तत्कर्मसेवी नाम यदा प्रतिसेविते बीजनिसर्गो भवति तदा श्वान इव तदेव जिह्वया लेढि, एवं विलीनभावमासेवमानः सुखमिति मन्यते । पाक्षिकापाक्षिकस्तु स उच्यते यस्यैकस्मिन् शुक्ले कृष्णे वा पक्षेऽतीव मोहोदयो भवति, द्वितीयपक्षे तु स स्वल्पो भवति ॥५१६६ ॥ सौगन्धिको नाम सागारिकस्य गन्धं शुभं मन्यते, स च सागारिकं जिघ्रति मलयित्वा वा हस्तं जिघ्रति । आसित्तो नाम स्त्रीशरीरासक्तः, स मोहोत्कटतया योनौ मेहनमनुप्रविश्य नित्यमास्ते । एते सर्वेऽपि निरुद्धवस्तयः कालान्तरेण नपुंसकतया परिणमन्ति । एते च पण्डकादयो दशापि प्रव्राजयितुमयोग्याः । तथा वर्द्धितो नाम यस्य बालस्यैव च्छेदं दत्त्वा द्वौ भ्रातरावपनीतौ । चिप्पितस्तु यस्य जातमात्रस्यैवाङ्गुष्ठ-प्रदेशिनी - मध्यमाभिर्मलयित्वा वृषणद्वयं गालितम् । अपरस्तु मन्त्रेणोपहतो भवति । अन्यः पुनरौषध्या उपहतः । कञ्चिद् ऋषिणा शप्तो भवति मम तपः प्रभावात् पुरुषभावस्ते मा विशिष्टानि भूयात् । एवमपरो देवेन रुष्टेन शप्तः । एते वर्द्धितादयः षडपि यद्यप्रतिसेवकास्तदा प्रव्राजयितव्याः || ५१६७ ||" इति क्षेमकीर्तिसूरिविरचितवृत्तियुक्ते टिप्पणानि बृहत्कल्पभाष्ये पृ० १३७४-१३७५।। तुलना - " इदानीम् अट्ठारस पुरिसेसुं ति सप्तोत्तरशततमं द्वारमाह - बाले १ वुड्ढे २ नपुंसे य ३, कीवे ४ जड्डे य ५ वाहिए ६ । तेणे ७ रायावगारी य ८, उम्मत्ते य ९ अदंसणे १० ॥ ७९०॥ दासे ११ दुट्टे य १२ मूढे य १३, अणत्ते १४ जुंगिए इ व १५ । ओबाए य १६ भयए १७, सेहनिप्फेडिया इ य १८ ।। ७९१।। [ निशीथभाष्ये ३५०६ - ७, पञ्चकल्पमहाभाष्य २००-१] बालेत्यादि श्लोकद्वयम्, जन्मत आभ्य अष्टौ वर्षाणि यावद्वालोऽत्राभिधीयते । स किल गर्भस्थो नव मासान् सातिरेकान् गमयति जातोऽप्यष्टौ वर्षाणि यावद्दीक्षां न प्रतिपद्यते । वर्षाष्टकादधो वर्तमानस्य सर्वस्यापि तथास्वाभाव्याद्देशतः सर्वतो वा विरतिप्रतिपत्तेरभावात् । उक्तं च - एएसि वयपमाणं अट्ठ समाउत्ति वीयरागेहिं | भणिअं जहन्नगं खलु [पञ्चव.गा. ५०] इति । अन्ये तु गर्भाष्टमवर्षस्यापि दीक्षां मन्यन्ते । यदुक्तं निशीथचूर्णी - आदेसेण वा गब्भट्ठमस्स दिक्ख [गा. ३५४३] त्ति । भगवद्वज्रस्वामिना व्यभिचार इति चेत्, तथाहि भगवान् वज्रस्वामी षाण्मासिकोऽपि भावतः प्रतिपन्नसर्वसाक्द्यविरतिः श्रूयते । तथा च सूत्रम् - छम्मासियं छसु जयं माऊए समन्नियं वंदे [ आव. नि. ७६४ ] | सत्यमेतत्, किन्त्वियं शैशवेऽपि भगवद्वज्रस्वामिनो भावतश्चरणप्रतिपत्तिराश्चर्यभूता कादाचित्कीति न तया व्यभिचारः । उक्तं च पञ्चवस्तुके - तदधो परिहवखेत्तं न चरणभावोऽवि पायमेएसिं। आहच्चभावकहगं सुत्तं पुण होइ नायव्वं ||१|| [गा. ५१] अस्या व्याख्या - तेषामष्टानामधो वर्तमाना मनुष्याः परिभवक्षेत्रं भवन्ति । येन तेन वाऽतिशिशुत्वात्परिभूयन्ते, For Private & Personal Use Only २६३ www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy