Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 334
________________ सवृत्तिके धर्मबिन्दौ चतर्थं परिशिष्टम् २६१ Jain Education International ममैवायं दोषो यदपरभवे नार्जितमहो शुभं यस्माल्लोको भवति मयकि प्रीतिहृदयः । अपापस्यैवं मे कथमपरथा मत्सरमयं जनो याति स्वार्थं प्रति विमुखतामेत्य सहसा ||१|| इति गाथार्थः ॥” इति अभयदेवसूरिविरचितवृत्तियुते पञ्चाशके ॥ "भावे पराप्रीतिरहितेत्युक्तं तदङ्गीकरणेनाह - धम्मत्थ० गाहा । धर्मार्थं धर्मनिमित्तमुद्यतेन उद्यमवता सर्वस्य जनस्य अप्रीतिकमधृतिरूपं न कर्तव्यम् अप्रीतिर्न करणीया इत्येवमनेन प्रकारेण संयमोऽपि भावस्तथापि किमुत द्रव्यस्तवः श्रेयानतिशयप्रशस्य:, अत्र चार्थे भगवान् वर्धमानस्वामी उदाहरणं निदर्शनम् ॥ एतदेवाह सो० गाहा । स भगवांस्तापसाश्रमात् कुलपत्यधिष्ठितात् तापसनिवासात् तेषां तापसानामप्रीतिकं संक्लेशं मत्वा अवगम्य परममबोधिबीजम् उत्कृष्टमबोधिलाभकारणं ततस्तापसाश्रमाद् गतो निःक्रान्तः, हन्तेत्यामन्त्रणे, अकालेऽपि वर्षासमयेऽपि प्रथमार्धमासपर्यन्ते ॥ इय० गाहा, इति हेतो: सर्वेणापि धर्मार्थिना सम्यक् सन्न्यायेन शक्यं परिहर्तुं शकनीयं मध्यस्थबुद्धया अप्रीतिकं द्वेषकारणं सदा सर्वकालं जनस्य लोकस्य नियमान्नियमेन परिहर्तव्यं परिहरणीयम्, इतरस्मिन् [ अ ]शक्ये [5] धर्मजीवितादिस्वरूपविषये स्वतत्त्वचिन्ता तु स्वरूपचिन्तैव, ममैवायं दोषः इति चिन्तनीयम् 'नान्यस्मिन् जन्मान्तरेऽस्माभिः प्रकृष्टं पुण्यमुपार्जितम् तेन मनोवाक्कायदोषरहितानामप्यस्माकं लोके (को) न धृतिभाग् भवति, यदि पुनर्विशिष्टं पुण्यमस्माभिः कृतं स्यात् तत एषां शुभभावो धर्मव्यवस्थितानामस्माकमुपरि स्यात्" इति यशोभद्रसूरिविरचितवृत्तिसहिते पञ्चाशके पृ० १०५-१०६ ॥ पृ० १०४ पं० ५ ॥ " अभिसन्धेः फलं भिन्नमनुष्ठाने समेऽपि हि । परमोऽतः स एवेह वारीव कृषिकर्मणि ॥ ११८ ॥ अभिसन्धेस्तथाविधाशयलक्षणात् किमित्याह - फलं भिन्नं संसारि देवस्थानादि अनुष्ठाने समेऽपि हि इष्टादौ । परमः प्रधान:, अत: कारणात् स एवाभिसन्धिरेव इह फलसिद्धी, किंवदित्याह- वारीव कृषिकर्मणि इति दृष्टान्तः, परमो लोकरूढ्या ॥ ११८ ॥” इति स्वोपज्ञवृत्तिसहिते योगदृष्टिसमुच्चये ॥ पृ० १०४ पं० १४ ।। उप्पण्णा उप्पण्णा माया अणुमग्गओ निहंतव्वा । आलोअणनिंदणगरहणाहिं न पुणो अ बीयं च ||४६४ || उत्पन्न उत्पन्ना माया अकुशलकर्मोदयेन अनुमार्गतो निहन्तव्या स्वकुशलवीर्येण, कथमित्याह - आलोचन - निन्दागर्हाभि:, न पुनश्च द्वितीयं For Private & Personal Use Only विशिष्टानि टिप्पणानि २६१ www.jainelibrary.org

Loading...

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379