________________
सवृत्तिके धर्मबिन्दौ
चतर्थं
परिशिष्टम्
२६१
Jain Education International
ममैवायं दोषो यदपरभवे नार्जितमहो शुभं यस्माल्लोको भवति मयकि प्रीतिहृदयः । अपापस्यैवं मे कथमपरथा मत्सरमयं जनो याति स्वार्थं प्रति विमुखतामेत्य सहसा ||१|| इति गाथार्थः ॥” इति अभयदेवसूरिविरचितवृत्तियुते पञ्चाशके ॥
"भावे पराप्रीतिरहितेत्युक्तं तदङ्गीकरणेनाह - धम्मत्थ० गाहा । धर्मार्थं धर्मनिमित्तमुद्यतेन उद्यमवता सर्वस्य जनस्य अप्रीतिकमधृतिरूपं न कर्तव्यम् अप्रीतिर्न करणीया इत्येवमनेन प्रकारेण संयमोऽपि भावस्तथापि किमुत द्रव्यस्तवः श्रेयानतिशयप्रशस्य:, अत्र चार्थे भगवान् वर्धमानस्वामी उदाहरणं निदर्शनम् ॥ एतदेवाह सो० गाहा । स भगवांस्तापसाश्रमात् कुलपत्यधिष्ठितात् तापसनिवासात् तेषां तापसानामप्रीतिकं संक्लेशं मत्वा अवगम्य परममबोधिबीजम् उत्कृष्टमबोधिलाभकारणं ततस्तापसाश्रमाद् गतो निःक्रान्तः, हन्तेत्यामन्त्रणे, अकालेऽपि वर्षासमयेऽपि प्रथमार्धमासपर्यन्ते ॥ इय० गाहा, इति हेतो: सर्वेणापि धर्मार्थिना सम्यक् सन्न्यायेन शक्यं परिहर्तुं शकनीयं मध्यस्थबुद्धया अप्रीतिकं द्वेषकारणं सदा सर्वकालं जनस्य लोकस्य नियमान्नियमेन परिहर्तव्यं परिहरणीयम्, इतरस्मिन् [ अ ]शक्ये [5] धर्मजीवितादिस्वरूपविषये स्वतत्त्वचिन्ता तु स्वरूपचिन्तैव, ममैवायं दोषः इति चिन्तनीयम् 'नान्यस्मिन् जन्मान्तरेऽस्माभिः प्रकृष्टं पुण्यमुपार्जितम् तेन मनोवाक्कायदोषरहितानामप्यस्माकं लोके (को) न धृतिभाग् भवति, यदि पुनर्विशिष्टं पुण्यमस्माभिः कृतं स्यात् तत एषां शुभभावो धर्मव्यवस्थितानामस्माकमुपरि स्यात्" इति यशोभद्रसूरिविरचितवृत्तिसहिते पञ्चाशके पृ० १०५-१०६ ॥
पृ० १०४ पं० ५ ॥ " अभिसन्धेः फलं भिन्नमनुष्ठाने समेऽपि हि । परमोऽतः स एवेह वारीव कृषिकर्मणि ॥ ११८ ॥ अभिसन्धेस्तथाविधाशयलक्षणात् किमित्याह - फलं भिन्नं संसारि देवस्थानादि अनुष्ठाने समेऽपि हि इष्टादौ । परमः प्रधान:, अत: कारणात् स एवाभिसन्धिरेव इह फलसिद्धी, किंवदित्याह- वारीव कृषिकर्मणि इति दृष्टान्तः, परमो लोकरूढ्या ॥ ११८ ॥” इति स्वोपज्ञवृत्तिसहिते योगदृष्टिसमुच्चये ॥
पृ० १०४ पं० १४ ।। उप्पण्णा उप्पण्णा माया अणुमग्गओ निहंतव्वा । आलोअणनिंदणगरहणाहिं न पुणो अ बीयं च ||४६४ || उत्पन्न उत्पन्ना माया अकुशलकर्मोदयेन अनुमार्गतो निहन्तव्या स्वकुशलवीर्येण, कथमित्याह - आलोचन - निन्दागर्हाभि:, न पुनश्च द्वितीयं
For Private & Personal Use Only
विशिष्टानि टिप्पणानि
२६१
www.jainelibrary.org