SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ चतुर्थ सवृत्तिके | साधर्मिकवात्सल्यं कृतं भवति, आत्मा च निर्जराद्वारे नियोजितो भवति ॥१८७३॥” इति क्षेमकीर्तिसूरिविरचिते बृहत्कल्पभाष्ये ॥ धर्मबिन्दौ पृ० १०३ पं०८॥"पडिभग्गस्स मयस्स व नासइ चरणं सुयं अगुणणाए। न हु वेयावच्चचियं सुहोदयं नासए कम्मं ।।५३५।। प्रतिभग्नस्य उन्निष्क्रान्तस्य मृतस्य वा नश्यति चरणं श्रुतमगुणनया न तु वैयावृत्यचितं बद्धं शुभोदयं नश्यति कर्म ॥” इति परिशिष्टम् द्रोणाचार्यविरचितवृत्तिसहितायाम् ओघनिर्युक्तौ ।। पृ० १०३ पं० २२ ॥ “धम्मत्थमुज्जएणं सव्वस्स अपत्तियं न कायव्वं । इय संजमो वि सेओ एत्थ य भयवं उदाहरणं ॥१११४॥ सो तावसासमाओ तेसिं अप्पत्तियं मुणेऊणं । परमं अबोहिबीयं तओ गओ हंतऽकाले वि ॥१११५।। विशिष्टानि २६० इय सव्वेण वि सम्मं सक्कं अप्पत्तियं सइ जणस्स । नियमा परिहरियव्वं इयरम्मि सतत्तचिंता उ ॥१११६।। टिप्पणानि धर्मार्थमुद्यतेन प्राणिना सर्वस्य जन्तोरप्रीतिर्न कार्या सर्वथा, इय एवं पराप्रीत्यकरणेन संयमोऽपि श्रेयान् नान्यथा । अत्र चार्थे भगवानुदाहरणं स्वयमेव च वर्धमानस्वामीति गाथार्थः ॥१११४|| कथमित्याह-स भगवांस्तापसाश्रमात् पितृव्यभूतकुलपतिसम्बन्धिनः तेषां तापसानाम् अप्रीतिम् अप्रणिधानं मत्वा मन:पर्यायेण, किंभूतम् ? परमं प्रधानम् अबोधिबीजं गुणद्वेषेण तत: तापसाश्रमाद् गतो भगवान्, हन्त इत्युपदर्शने अकालेऽपि प्रावृष्यपि इति गाथार्थः । कथानकम् आवश्यकादवसेयम् ॥१११५॥ इय एवं सर्वेणापि परलोकार्थिना सम्यगुपायत: शक्यमप्रणिधानं सदा सर्वकालं जनस्य प्राणिनिवहस्य नियमाद् अवश्यन्तया परिहर्तव्यम् न कार्यम् । तरस्मिन् अशक्ये ह्यप्रणिधाने स्वतत्त्वचिन्तैव कर्तव्या ममैवायं दोष इति । गाथार्थः ॥१११६।।" इति स्वोपज्ञवृत्तियुते पञ्चवस्तुके ।। “इदमेव निदर्शनमङ्गीकृत्योपदिशन्नाह-इय सव्वेण वि सम्मं ... ॥७॥१६॥ इय० गाहा । इति एवम् भगवता इव इत्यर्थः, सर्वेणापि समस्तेनापि जिनभवनादिविधानार्थिना संयमार्थिना च, न केवलमेकतरेणैव इति अपिशब्दार्थः, अप्रीतिकं परिहर्तव्यमिति योगः, कथम् ? सम्यग् भावविशुद्धया, किंभूतं तदित्याह-शक्यं शक्यपरिहारत्वेन शकनीयम्, नाशकनीयम्, तस्य परिहर्तुमशक्यत्वादेव, अप्पत्तियं ति अप्रीतिरेव अप्रीतिकं सकृत् सदा जनस्य लोकस्य नियमादवश्यतया परिहर्तव्यं वर्जनीयम् । इतरस्मिन्नशक्यपरिहारेऽप्रीतिके स्वतत्त्वचिन्ता तु स्वस्वभावपर्यालोचनमेव विधेयम्, तथाहि - २६० Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy