________________
सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम्
२५९
प्रव्रज्यां प्रतिपन्नो यस्तद्विरोधेन वर्तते । असदारम्भिणस्तस्य, पौरुषघ्नीति कीर्तिता ॥४॥ प्रव्रज्यां सर्वविरतिलक्षणां, प्रतिपन्नोऽभ्युपगतः सन्, य: प्राणी, तद्विरोधेन प्रव्रज्याविरोधेन मूलगुणोत्तरगुणविराधनारूपेण पूर्वोक्तध्यान-ज्ञान-गुर्वाज्ञानपेक्षत्वलक्षणेन वा हेतुना, वर्तते चेष्टते, तस्येति प्रव्रज्याविरोधवर्तिनः, किंविधस्य ? असदारम्भिणः, असदशोभनं भूतोपमर्दादिकं वस्त्वारभत इत्येवंशीलो यः स तथा तस्य, पौरुषघ्नी उक्तनिर्वचना भिक्षेति प्रकृतम्, इति अनेनानन्तरोक्तेन वक्ष्यमाणेन वा कारणेन, कीर्तिता संशब्दिता । ननु प्रव्रज्याविरोधाभिधानादेवासदारम्भित्वस्यावगतत्वात्किमेतद्ग्रहणेनेति, सत्यम्, किन्तु विवक्षितभिक्षाहेतुत्वेनाभिधानमस्येति न दोषः, तथा च यतोऽसौ असदारम्भी इति हेतोस्तस्य पौरुषघ्नीति कीर्तितेति वाक्यार्थ: स्यात्, अथवा तस्य प्रव्रज्याविरोधवर्तिनः विशिष्टानि प्रव्रजितस्यासदारम्भिणश्चाशोभनारम्भस्य गृहिण इत्यर्थः, असर्वदारम्भकस्य वाऽष्टम्यादिष्वारम्भवर्जकस्येत्यर्थः, इह च व्याख्याने समुच्चयार्थचशब्दाभावेऽपि
टिप्पणानि समुच्चयः प्रतीयते ॥ अहरहर्नयमानो, गामश्वं पुरुषं पशुम् ॥ वैवस्वतो न तृप्येत, सुराया इव दुर्मदी ॥१॥[ ] इत्यादाविवेति ॥४॥ यदुक्तं 'वक्ष्यमाणेन वा कारणेन' तदाह । अथवा प्रव्रज्याविरोधवर्तिनं सामान्यं वा प्राणिनं प्रति पौरुषघ्या अन्वर्थघटनामाह -
नि:स्वान्धपङ्गवो ये तु, न शक्ता वै क्रियान्तरे ॥ भिक्षामटन्ति वृत्त्यर्थ, वृत्तिभिक्षेयमुच्यते ॥६॥ नि:स्वान्धपनवो निर्धनोपहतनयनचलनबलहीना:, ये केचन, तुशब्दः पुन:शब्दार्थः । तस्य चैवं प्रयोगः, यः प्रव्रज्याविरुद्धवृत्तिस्तस्य पौरुषघ्नी भिक्षा, ये पुनर्नि:स्वादयः, किंविधा: ? वैशब्दस्यैवकारार्थस्य 'नबा'सम्बन्धान्नैव शक्ता: समर्थाः, क्रियान्तरे भिक्षाव्यतिरिक्ते कृषिवाणिज्यादिके कर्मविशेषे, ये क्रियान्तरसमर्थास्तेषां पौरुषघ्न्येवेति गर्भार्थः । भिक्ष्यत इति भिक्षा भिक्षणं वा भिक्षा, ताम् अटन्ति भ्रमन्ति, किमर्थमित्याह-वृत्तिर्वर्तनं जीविका तस्यै इदं वृत्त्यर्थ तेषामिति गम्यते वृत्तिभिक्षा उक्तनिर्वचना, इयम् एषा, उच्यते अभिधीयते इति ॥६॥” इति जिनेश्वरसूरिविरचितवृत्तिसहिते अष्टकप्रकरणे पञ्चमेऽष्टके ॥ पृ० १०३ पं०७॥"जह भमर-महुयरिंगणा निवतंती कुसुमियम्मि चूयवणे । इय होइ निवइयव्वं गेलने कइवयजढेणं ॥१८७॥
यथा भ्रमर-मधुकरीगणा: कुसुमिते मुकुरिते चूतवने सहकारवनखण्डे मकरन्दपानलोलुपतया निपतन्ति, इति अमुनैव प्रकारेण भगवदाज्ञामनुवर्तमानेन कर्मनिर्जरालाभलिप्सया ग्लान्ये समुत्पन्ने कैतवजन मायाविप्रमुक्तेन त्वरितं निपतितव्यम् आगन्तव्यं भवति, एवं कुर्वता ।
२५९
Jain Education International
For Private & Personal use only
www.jainelibrary.org