Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
चतुर्थ
सवृत्तिके | साधर्मिकवात्सल्यं कृतं भवति, आत्मा च निर्जराद्वारे नियोजितो भवति ॥१८७३॥” इति क्षेमकीर्तिसूरिविरचिते बृहत्कल्पभाष्ये ॥ धर्मबिन्दौ
पृ० १०३ पं०८॥"पडिभग्गस्स मयस्स व नासइ चरणं सुयं अगुणणाए। न हु वेयावच्चचियं सुहोदयं नासए कम्मं ।।५३५।।
प्रतिभग्नस्य उन्निष्क्रान्तस्य मृतस्य वा नश्यति चरणं श्रुतमगुणनया न तु वैयावृत्यचितं बद्धं शुभोदयं नश्यति कर्म ॥” इति परिशिष्टम् द्रोणाचार्यविरचितवृत्तिसहितायाम् ओघनिर्युक्तौ ।।
पृ० १०३ पं० २२ ॥ “धम्मत्थमुज्जएणं सव्वस्स अपत्तियं न कायव्वं । इय संजमो वि सेओ एत्थ य भयवं उदाहरणं ॥१११४॥ सो तावसासमाओ तेसिं अप्पत्तियं मुणेऊणं । परमं अबोहिबीयं तओ गओ हंतऽकाले वि ॥१११५।।
विशिष्टानि २६० इय सव्वेण वि सम्मं सक्कं अप्पत्तियं सइ जणस्स । नियमा परिहरियव्वं इयरम्मि सतत्तचिंता उ ॥१११६।।
टिप्पणानि धर्मार्थमुद्यतेन प्राणिना सर्वस्य जन्तोरप्रीतिर्न कार्या सर्वथा, इय एवं पराप्रीत्यकरणेन संयमोऽपि श्रेयान् नान्यथा । अत्र चार्थे भगवानुदाहरणं स्वयमेव च वर्धमानस्वामीति गाथार्थः ॥१११४|| कथमित्याह-स भगवांस्तापसाश्रमात् पितृव्यभूतकुलपतिसम्बन्धिनः तेषां तापसानाम् अप्रीतिम् अप्रणिधानं मत्वा मन:पर्यायेण, किंभूतम् ? परमं प्रधानम् अबोधिबीजं गुणद्वेषेण तत: तापसाश्रमाद् गतो भगवान्, हन्त इत्युपदर्शने अकालेऽपि प्रावृष्यपि इति गाथार्थः । कथानकम् आवश्यकादवसेयम् ॥१११५॥ इय एवं सर्वेणापि परलोकार्थिना सम्यगुपायत: शक्यमप्रणिधानं सदा सर्वकालं जनस्य प्राणिनिवहस्य नियमाद् अवश्यन्तया परिहर्तव्यम् न कार्यम् । तरस्मिन् अशक्ये ह्यप्रणिधाने स्वतत्त्वचिन्तैव कर्तव्या ममैवायं दोष इति । गाथार्थः ॥१११६।।" इति स्वोपज्ञवृत्तियुते पञ्चवस्तुके ।।
“इदमेव निदर्शनमङ्गीकृत्योपदिशन्नाह-इय सव्वेण वि सम्मं ... ॥७॥१६॥ इय० गाहा । इति एवम् भगवता इव इत्यर्थः, सर्वेणापि समस्तेनापि जिनभवनादिविधानार्थिना संयमार्थिना च, न केवलमेकतरेणैव इति अपिशब्दार्थः, अप्रीतिकं परिहर्तव्यमिति योगः, कथम् ? सम्यग् भावविशुद्धया, किंभूतं तदित्याह-शक्यं शक्यपरिहारत्वेन शकनीयम्, नाशकनीयम्, तस्य परिहर्तुमशक्यत्वादेव, अप्पत्तियं ति अप्रीतिरेव अप्रीतिकं सकृत् सदा जनस्य लोकस्य नियमादवश्यतया परिहर्तव्यं वर्जनीयम् । इतरस्मिन्नशक्यपरिहारेऽप्रीतिके स्वतत्त्वचिन्ता तु स्वस्वभावपर्यालोचनमेव विधेयम्, तथाहि -
२६०
Jain Education International
For Private & Personal use only
www.jainelibrary.org
Loading... Page Navigation 1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379