Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 331
________________ सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम् २५८ मयान्नमकान्दग्रहणतो गृहप्रयत्परस्यापि पुर: गृहस्था: सातदोषाभावेऽपि मालामाईस्यादिति, किति तोकान्नमददमदोषपरिहरणावदोषसद्भावः, अदिति, नैवम्, अतस्थापितादिदोषी बालग्लानशिष्य(शैक्ष)कप्राघुर्णकादिपरिग्रहः, तदर्थं तनिमित्तमिति, अनेन स्वोदरविवरभरणप्रवणान्त:करणस्य क्षपणकादेर्व्यवच्छेद उक्तः, वृद्धादिवैयावृत्त्यं हि सकलकल्याणवल्लरीकल्पकन्दकल्पं वर्तते, ॥यदाह "वेयावच्चं निच्चं, करेह संजमगुणे धरन्ताणं ॥ सव्वं किर पडिवाई, वेयावच्चं अपडिवाई ॥१॥"[ओघनि० ५३३] अतस्तन्निरपेक्षस्य कथं सर्वसम्पत्करभिक्षाभागित्वमिति, तथा असङ्गस्य शब्दादिविषयेष्वनभिष्वास्य आह च"सद्दाइएसु साहू मुच्छं न करेज्ज गोयरगओ य । एसणजुत्तो होज्जा गोणीवच्छो गवत्तिव्व ॥१॥" [दशवै०नि० २२४] अथवा वृद्धग्लानाद्यर्थमटतोऽपि तदुद्देशलब्धपेशलदालिशालिकूरादिभोजनेष्वलुब्धस्य, तदितरस्य तु तथाविधवैयावृत्त्यकरादेर्व्यवच्छेदः, तथा विशिष्टानि भ्रमरोपमया मधुकरनिदर्शनेन, यथा हि मधुकरः कतिपयमकरन्दकणस्वीकरणत: कुसुमक्लमाकरणेनात्मानमनुप्रीणात्येवमेव मुनिमधुकरा: टिप्पणानि स्तोकस्तोकान्नमकरन्दग्रहणतो गृहपतिप्रसूनपीडानापादनेन संयमात्मानमनुपालयन्तीत्येवंरूपेणेति, अनेन च य एकत्र सदनि भुङ्क्ते तस्य निरास:, एकत्र भोजने हि कथञ्चिदुद्गमदोषपरिहरणप्रयत्नपरस्यापि पुर:कर्म-पश्चात्कर्मा-ऽसंयतचेष्टाकृतदोषप्रसङ्ग इति, अटत: पर्यटतो भिक्षाकुलेष्वनेन च अनटतो निषेधः, अनटनेन हि भिक्षाग्रहणेऽभ्याहृतदोषसद्भावः, अथ ये गृहस्था: साधुवन्दनार्थमागच्छन्ति तदानयनेऽसौ न भविष्यति वन्दनार्थागमनस्य गृहस्थप्रयोजनत्वात्साध्वर्थभक्तानयनस्य च प्रासङ्गिकत्वादिति, नैवम्, अभ्याहृतदोषाभावेऽपि मालापहृत-निक्षिप्त-पिहिताद्यनेकविधदोषपप्रसमात्, अथ गृहस्थवचनप्रामाण्यात्तदवगमे तत्परीहारो भविष्यति, सत्यम्, किन्तु गृहस्थहस्तस्थापितादिदोषो दुष्परिहार्य: स्यादिति, किंविधेन आशयविशेषेणाटत इत्याहगृहि-देहोपकाराय गृहिणां स्वशरीरस्य चोपग्रहार्थम् । तत्र गृहिणामारम्भपरिग्रहगृहीतात्मनां दुर्गतिगमननिबन्धनकर्मबन्धवतां धर्मसाधककायोपकारकाहारग्रहणद्वारेणात्यन्तिकसुखफलनिर्वाणतरुबीजकल्पपुण्यसम्पादनत उपकारः, तथा स्वदेहस्याहारविरहितस्य शुद्धधर्मसौधशिखरमध्यासितुमशक्तस्याहारलक्षणावलम्बनदानत उपकारः । अनेन तु यो गृहिणामप्रीत्युत्पादनेन धर्मकायस्य चाहारलौल्याद्धर्मानुपग्राहकाहारग्रहणेनापकारी तस्य निषेधः, तथा दैन्याच्छ्रीमत्पुत्रादितया लज्जमानो वा योऽटति तनिषेधायाह-विहिता यत्यवस्थोचिता इयं तीर्थकरैरप्याचरितत्वादुपदिष्टत्वाच्च, इत्येवंप्रकारात्, शुभाशयात्प्रशस्ताध्यवसायात्, अथवा गृहिदेहोपकाराय विहिता जिनैरुपदिष्टा भिक्षा इति | २५८ एवंरूपाच्छुभाशयादटत इति प्रकृतमेवेति ॥३॥ उक्तविपर्ययेण पौरुषघ्नी भवतीति तत्स्वरूपप्रतिपादनायाह . Jain Education Interational For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379