Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 329
________________ सवृत्तिके धर्मबिन्दौ चतुर्थं परिशिष्टम् २५६ Jain Education International पृ० १०१ पं० ४ ॥ “ भण्णइ गुरुकुलवासोवसंगहत्थं जहा गुणत्थीह । निच्चं गुरुकुलवासी हविज्ज सीसो जओऽभिहियं || ३८५७|| नाणस होइ भागी थिरयरओ दंसणे चरिते य । धन्ना आवकहाए गुरुकुलवासं न मुंचंति ।। ३८५९ ।। गीयावासो रई धम्मे अणाययणवज्जणं । निग्गहो य कसायाणं एवं धीराण सासणं || ३८६०||" इति विशेषावश्यकभाष्ये उद्धृतेयं गाथा || “ णाणस्स होइ भागी थिरयरओ दंसणे चरित्ते य । धन्ना आवकहाए गुरुकुलवासं न मुंचति ||११|१६|| [ पञ्चाशके ] "ज्ञानस्य श्रुतज्ञानादेः भवति स्यात्, भागी भाजनम्, गुरुकुले वसन्निति प्रकृतम्, प्रत्यहं वाचनादिभावात् । तथा स्थिरतरक: पूर्वप्रतिपन्नदर्शनोऽपि सन्नतिशयस्थिरो भवति दर्शने सम्यक्त्वेऽन्वहं स्वसमयपरसमयतत्त्वश्रवणात् । तथा चरित्रे चरणे स्थिरतरो भवति, अनुवेलं वारणादिभावात् । चशब्दः समुच्चये । यत एवं ततो धन्या धर्मधनं लब्धारः यावत्कथं यावज्जीवम् गुरुकुलवासं गुरुगृहनिवसनं न मुञ्चन्ति न त्यजन्ति । इति गाथार्थ: ।" इति अभयदेवसूरिविरचितायां पञ्चाशकवृत्तौ पृ० १८२ ॥ पृ० १०२ पं० ९ ।। " यतिर्ध्यानादियुक्तो यो गुर्वाज्ञायां व्यवस्थितः । सदानारम्भिणस्तस्य सर्वसम्पत्करी मता ॥२॥ यति: साधुः, तस्य सर्वसम्पत्करी मतेति क्रिया, भिक्षेति प्रकृतम् अनेन च व्यवच्छेदफलत्वाद्वचनस्य गृहस्थस्य व्यवच्छेदः कृतः, च द्रव्ययतिरपि स्यादतस्तद्व्यवच्छेदायाह-ध्यानादियुक्तः, तत्र ध्यानं भवशतसमुपचितकर्मवनगहनज्वलनकल्पमखिलतप:प्रकारप्रवरमान्तरतपः क्रियारूपं धर्मध्यानं शुक्लध्यानं च, आदिशब्दात् निखिलपारलौकिकाद्यनुष्ठानप्रकाशनप्रदीपकल्पज्ञानपरिग्रहः, अतस्तेन ध्यानादिना युक्तो युतो यः स तथा, अनेन च तपःक्रियाज्ञानयुक्तत्वविशेषणेन केवलक्रियाकारिणः क्रियाशून्यज्ञानवतश्च व्यवच्छेद उक्तः, केवलयोस्तयोरनर्थकत्वात् ॥ यदाह - हयं नाणं कियाहीणं, हया अन्नाणओ किया || पासन्तो पंगुलो दड्ढो धावमाणो उ अंधओ ॥१॥ संजोगसिद्धीइ फलं वयन्ति, न हु एगचक्केण रहो पयाइ ॥ अंधो य पंगू य वणे समिच्चा, ते संपउत्ता नगरं पविट्ठा ||२|| [आव०नि० १०१-१०२] इति । य इति सामान्योऽनिर्दिष्टनामा ध्यानादियुक्त इतिविशेषणसामर्थ्यात्तथाविधविशिष्टज्ञानविकलानां माषतुषादिचारित्रिणां मा भूत्सर्वसम्पत्करभिक्षाप्रतिषेध इत्यत आह-गुर्वाज्ञायां व्यवस्थितः, गुरोर्गुरुगुणोपेताचार्यस्याज्ञा वचनं तस्यां विशेषेणावस्थितः, एष हि गुरुज्ञानत एव For Private & Personal Use Only विशिष्टानि टिप्पणानि २५६ www.jainelibrary.org

Loading...

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379