Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
सवृत्तिके धर्मबन्दी
चतर्थं परिशिष्टम्
२४९
Jain Education International
ति गाथातोऽवगन्तव्यः । एतस्य चतूरूपस्यादत्तस्य या विरतिः निवृत्तिः, ग्रहणं प्रतीति शेषः, भवति जायते अदत्ते अदत्तादानव्रते स्वरूपं स्वभाव:, तुः छन्दपूरणे, इति गाथार्थः " इति बृहद्वृत्तिसहिते नवपदप्रकरणे पृ० ११६-११७ ।।
"
पृ० ७० पं० ११ ॥ “ मूलुत्तरगुणरूवस्स ताइणो परमचरणपुरिसस्स । अवराहसल्लपभवो भाववणो होइ नायव्वो ॥ [ प्र ] भिक्खायरियाइ सुज्झइ अइयारो कोइ वि य डणाए उ । बीओ असमिओ मि त्ति कीस सहसा अगुत्तो वा ? ।। १४२५ ।। सद्दाइएस रागं दोसं च मणा गओ तइयगम्मि । नाउं अणेसणिज्जं भत्ताइविगिंचण चउत्थे || १४२६ ||
अधुना भावव्रणः प्रतिपाद्यते - मूलुत्तरगुणरूवस्स० गाहा । इयमन्यकर्तृकी सोपयोगा चेति व्याख्यायते - मूलगुणाः प्राणातिपातादिविरमणलक्षणाः पिण्डविशुद्धयादयस्तु उत्तरगुणाः, एते एव रूपं यस्य स मूलगुणोत्तरगुणरूपः तस्य तायिनः परमश्चासौ चरणपुरुषश्चेति समासः तस्य अपराधा: गोचरादिगोचराः त एव शल्यानि तेभ्यः प्रभवः संभवो यस्य स तथाविधः भावव्रणो भवति ज्ञातव्य इति गाथार्थः । साम्प्रतमस्यानेकभेदभिन्नस्य भावव्रणस्य विचित्र प्रायश्चित्त भैषजेन चिकित्सा प्रतिपाद्यते — तत्र भिक्खायरियाइ भिक्षाचर्यादिः शुध्यति अतिचार: कश्चिद् विकटनयैव आलोचनयैवेत्यर्थः । आदिशब्दाद् विचारभूम्यादिगमनजो गृह्यते इह चातिचार एव व्रणः एवं सर्वत्र योज्यम् । बितिउ ति द्वितीयो व्रणः अप्रत्युपेक्षिते खेलविवेकादी हा असमितोऽस्मीति सहसा अगुप्तो मिथ्या दुष्कृतमिति विचिकित्सेत्ययं गाथार्थः । शब्दादिषु इष्टानिष्टेषु रागं द्वेषं वा मनसा (मनाक् ) गतः अत्र तइओ तृतीयो व्रणः मिश्रभैषज्यचिकित्स्य: आलोचनाप्रतिक्रमणशोध्य इत्यर्थः । ज्ञात्वा अनेषणीयं भक्तादिविगिञ्चना चतुर्थ इति गाथार्थः । " इति हरिभद्रसूरिविरचितवृत्तिसहितायाम् आवश्यकनिर्युक्तौ ॥
पृ० ७३ पं० ९ ॥ “ तम्हा निच्चसतीए बहुमाणेणं च अहिगयगुणम्मि । पडिवक्खदुगंछाए परिणइआलोयणेणं च ॥ १ ॥ ३६ ॥
तित्थंकर भत्तीए सुसाहुजणपज्जुवासणाए य । उत्तरगुणसद्धाए य एत्थ सया होड़ जड़यव्वं ||१||३७|| एवमसंतो वि इमो जायड़ जाओ वि ण पडड़ कयाई । ता एत्थं बुद्धिमया अपमाओ होइ कायव्वो ॥ ११३८ ॥
तम्हा० गाहा, तित्थंकर गाहा । यस्मादसन्नपि विरतिपरिणाम: प्रयत्नाज्जायते प्रयत्नं विना चाकुशलकर्मोदयात् सन्नपि प्रतिपतति तस्मात् कारणाद् नित्यस्मृत्या सार्वदिकस्मरणेन भवति यतितव्यमिति सम्बन्ध:, तथा बहुमानेन भावप्रतिबन्धेन चशब्दः समुच्चये अधिकृतगुणे अङ्गीकृतगुणे
For Private & Personal Use Only
विशिष्टानि | टिप्पणानि
२४९
www.jainelibrary.org
Loading... Page Navigation 1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379