Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 325
________________ सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम् २५२ विशिष्टानि टिप्पणानि सर्वसम्पदां समस्तश्रियामिति ॥२३॥७॥” इति जिनेश्वरसूरिविरचितवृत्तिसहिते अष्टकप्रकरणे ॥ पृ० ८२ पं०९॥ “कतिविधो योग इत्याह सालम्बनो निरालम्बनश्च योग: परो द्विधा ज्ञेयः । जिनरूपध्यानं खल्वाद्यस्तत्तत्त्वगस्त्वपरः ।।१४।१।। सालम्बन इत्यादि सह आलम्बनेन चक्षुरादिज्ञानविषयेण प्रतिमादिना वर्तत इति सालम्बनो निरालम्बनचालम्बनाद्विषयभावापत्तिरूपान्निष्क्रान्तो निरालम्बनः, यो हि छद्यस्थेन ध्यायते न च स्वरूपेण दृश्यते तद्विषयो निरालम्बन इति यावत् । योगो ध्यानविशेषः परः प्रधानो द्विधा ज्ञेयो द्विविधो वेदितव्य: । जिनरूपस्य समवसरणस्थितस्य ध्यानं चिन्तनं खलुशब्दो वाक्यालङ्कारे आद्यः प्रथमः सालम्बनो योगः । तस्यैव जिनस्य तत्त्वं केवलजीवप्रदेशसङ्घातरूपं केवलज्ञानादिस्वभावं तस्मिन् गच्छतीति तत्तत्त्वग: तुरेवकारार्थः परोऽनालम्बन: मुक्तपरमात्मस्वरूपध्यानमित्यर्थः ॥१४॥१॥" इति आचार्यश्री हरिभद्रसूरिविरचिते यशोभद्रसूरिविरचितटीकासहिते षोडशके ॥ पृ० ८२ पं० १५ ॥ “चित्तरत्नमसंक्लिष्टमान्तरं धनमुच्यते ॥ यस्य तन्मुषितं दोषैस्तस्य शिष्टा विपत्तयः ।।२४।७।। चित्तं मनस्तद्रत्नमिव चित्तरत्नं निर्मलस्वभावत्वोपाधिजनितविकारत्वादिसाधर्म्यात्,असंक्लिष्टं रागादिसंक्लेशवर्जितम्, आन्तरं आध्यात्मिकम्, धनं वसु, उच्यते अभिधीयते, यस्य देहिनः, तत् चित्तरत्नम्, मुषितं अपहृतम्, दोषैः रागादिभिः, तस्य देहिनः, शिष्टा उद्धरिता: विपत्तयो व्यसनानि, असंक्लिष्टचित्तरत्नाभावे हि हर्षविषादादिरूपा: कुगतिगमनरूपा वा विपद एवावशिष्यन्त इति ॥२४॥७॥" इति जिनेश्वरसूरिविरचितवृत्तिसहिते अष्टकप्रकरणे ॥ पृ० ८४ पं०१०॥"मैत्र्यादीनामेव लक्षणमाह परहितचिन्ता मैत्री परदुःखविनाशिनी तथा करुणा । परसुखतुष्टिर्मुदिता परदोषोपेक्षणमुपेक्षा ।।४।१५।। परेत्यादि । परेषां प्राणिनां हितचिन्ता हितचिन्तनम् मैत्री, ज्ञेयेति सर्वत्र वाक्यशेषः । परेषां दुःखं तद्विनाशिनी तथा करुणा कृपा, परेषां सुखं तेन तस्मिन् वा तुष्टिः परितोषोऽप्रीतिपरिहारो मुदिता, परेषां दोषा अविनयादयः प्रतिकर्तुमशक्यास्तेषामुपेक्षणमवधीरणमुपेक्षा, संभवत्प्रतीकारेषु दोषेषु नोपेक्षा विधेया ॥४॥१५॥" इति इति आचार्यश्रीहरिभद्रसूरिविरचिते यशोभद्रसूरिविरचितटीकासहिते षोडशके ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379