Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
सवृत्तिके धर्मबिन्दी
चतुर्थ परिशिष्टम्
२४७
का तं प्रति प्रतिपत्तिः ?, उच्यते, तदैकः पटलकमन्यो मुखानन्तकमपरो भाजनं प्रत्युपेक्षते, मा अन्तरायदोषाः स्थापनादोषा वा भवन्तु, स च यदि प्रथमायां पौरुष्यां निमन्त्रयतेऽस्ति च नमस्कारसहित प्रत्याख्यानी ततस्तद्गृह्यते, अथ नास्त्यसौ तदा न गृह्यते, यतस्तद् वोढव्यं भवति, यदि पुनर्घनं लगेत्तदा गृह्यते संस्थाप्यते च यो वोद्घाटपौरुष्यां पारयति पारणकवानन्यो वा तस्मै तद्दीयते, पश्चात्तेन श्रावकेण समं संघाटको व्रजति, एको न वर्तते प्रेषयितुम्, साधू पुरतः श्रावकस्तु मार्गतो गच्छति, ततोऽसौ गृहं नीत्वा तावासनेनोपनिमन्त्रयते, यदि निविशेते तदा लष्टम्, अथ न निविशेते तथापि विनयः प्रयुक्तो भवत्विति, ततोऽसौ भक्तं पानं च स्वयमेव ददाति, अथवा भाजनं धारयति, अथवा स्थित एवास्ते यावद् दत्तम्, साधू अपि सावशेषं गृह्णीतः पश्चत्कर्मपरिहरणार्थम्, ततो दत्त्वा वन्दित्वा च विसर्जयति, अनुगच्छति च कतिचित्पदानि ततः स्वयं भुङ्क्ते, यच्च किल साधुभ्यो न दत्तं तच्छ्रावण न भोक्तव्यम्, यदि पुनस्तत्र ग्रामादौ साधवो न सन्ति तदा भोजनवेलायां दिगवलोकनं करोति, विशुद्धभावेन च चिन्तयति यदि साधवोऽभविष्यंस्तदा निस्तारितोऽहमभविष्यमिति विभाषेति गाथार्थः ||३१|| अत्रातिचारानाह -
सच्चित्तणिक्खिवणयं वज्जइ सच्चित्तपिहणयं चेव । कालाइक्कमपरववएसं मच्छरिययं चेव ||३२||
चित्त गाहा । सचित्ते सचेतने पृथिव्यादौ निक्षेपणमेव निक्षेपणकं साधुदेयभक्तादेः स्थापनं सचित्तनिक्षेपणकं तद्वर्जयति परिहरते, तथा सचित्तेन फलादिना पिधानमेव पिधानकं साधुदेयभक्तादेः स्थगनं सचित्तपिधानकम्, चशब्दः समुच्चये, एवकारोऽवधारणे, एवं चानयोः प्रयोगः - सचित्तपिधानकमेव च, तथा कालस्य - साधूचितभिक्षासमयस्यातिक्रमः अदित्सयाऽनागतभोजनपश्चाद्भोजनद्वारेणोल्लङ्घनं कालातिक्रमः, तथा परस्य आत्मव्यतिरिक्तस्य व्यपदेशः परकीयमिदमन्नादिकमित्येवमदित्सावतः साधुसमक्षं भणनं परव्यपदेशः, ततोऽनयोः समाहारद्वन्द्वे कालातिक्रमपरव्यपदेशम् तत्, तथा मत्सरम् असहनं साधुभिर्याचितस्य कोपनम्, 'तेन रण याचितेन दत्तम् अहं तु किं ततोऽपि हीन:' इत्यादिविकल्पो वा, सोऽस्यास्तीति मत्सरिकस्तद्भावो मत्सरिकता तां च, चैवशब्दः समुच्चये, अतिचारभावना पुनरियम् - यदाऽनाभोगादिनाऽतिक्रमादिना वा एतानाचरति तदाऽतिचारः, अन्यदा तु भङ्ग इति गाथार्थः ||३२||” इति अभयदेवसूरिविरचितवृत्तिसहिते पञ्चाशके ॥
पृ० ५९ पं० १२ ॥ "बंधो दुविहो दुपदाणं चतुष्पदाणं च अट्ठाए अणट्ठाए य । अणट्ठाए ण णिरवेक्खो निच्चलं धणितं बज्झति, साविक्खो जं संसरपासएण आलीवणगादिसु य जं सक्केति छिंदितुं
वट्टति, अट्ठाए सावेक्खो णिरवेक्खो य । मुंचितुं वा दामगंठिणा, एवं चतुप्पदाणं
वा
Jain Education International
For Private & Personal Use Only
विशिष्टानि टिप्पणानि
२४७
www.jainelibrary.org
Loading... Page Navigation 1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379