SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दी चतुर्थ परिशिष्टम् २४७ का तं प्रति प्रतिपत्तिः ?, उच्यते, तदैकः पटलकमन्यो मुखानन्तकमपरो भाजनं प्रत्युपेक्षते, मा अन्तरायदोषाः स्थापनादोषा वा भवन्तु, स च यदि प्रथमायां पौरुष्यां निमन्त्रयतेऽस्ति च नमस्कारसहित प्रत्याख्यानी ततस्तद्गृह्यते, अथ नास्त्यसौ तदा न गृह्यते, यतस्तद् वोढव्यं भवति, यदि पुनर्घनं लगेत्तदा गृह्यते संस्थाप्यते च यो वोद्घाटपौरुष्यां पारयति पारणकवानन्यो वा तस्मै तद्दीयते, पश्चात्तेन श्रावकेण समं संघाटको व्रजति, एको न वर्तते प्रेषयितुम्, साधू पुरतः श्रावकस्तु मार्गतो गच्छति, ततोऽसौ गृहं नीत्वा तावासनेनोपनिमन्त्रयते, यदि निविशेते तदा लष्टम्, अथ न निविशेते तथापि विनयः प्रयुक्तो भवत्विति, ततोऽसौ भक्तं पानं च स्वयमेव ददाति, अथवा भाजनं धारयति, अथवा स्थित एवास्ते यावद् दत्तम्, साधू अपि सावशेषं गृह्णीतः पश्चत्कर्मपरिहरणार्थम्, ततो दत्त्वा वन्दित्वा च विसर्जयति, अनुगच्छति च कतिचित्पदानि ततः स्वयं भुङ्क्ते, यच्च किल साधुभ्यो न दत्तं तच्छ्रावण न भोक्तव्यम्, यदि पुनस्तत्र ग्रामादौ साधवो न सन्ति तदा भोजनवेलायां दिगवलोकनं करोति, विशुद्धभावेन च चिन्तयति यदि साधवोऽभविष्यंस्तदा निस्तारितोऽहमभविष्यमिति विभाषेति गाथार्थः ||३१|| अत्रातिचारानाह - सच्चित्तणिक्खिवणयं वज्जइ सच्चित्तपिहणयं चेव । कालाइक्कमपरववएसं मच्छरिययं चेव ||३२|| चित्त गाहा । सचित्ते सचेतने पृथिव्यादौ निक्षेपणमेव निक्षेपणकं साधुदेयभक्तादेः स्थापनं सचित्तनिक्षेपणकं तद्वर्जयति परिहरते, तथा सचित्तेन फलादिना पिधानमेव पिधानकं साधुदेयभक्तादेः स्थगनं सचित्तपिधानकम्, चशब्दः समुच्चये, एवकारोऽवधारणे, एवं चानयोः प्रयोगः - सचित्तपिधानकमेव च, तथा कालस्य - साधूचितभिक्षासमयस्यातिक्रमः अदित्सयाऽनागतभोजनपश्चाद्भोजनद्वारेणोल्लङ्घनं कालातिक्रमः, तथा परस्य आत्मव्यतिरिक्तस्य व्यपदेशः परकीयमिदमन्नादिकमित्येवमदित्सावतः साधुसमक्षं भणनं परव्यपदेशः, ततोऽनयोः समाहारद्वन्द्वे कालातिक्रमपरव्यपदेशम् तत्, तथा मत्सरम् असहनं साधुभिर्याचितस्य कोपनम्, 'तेन रण याचितेन दत्तम् अहं तु किं ततोऽपि हीन:' इत्यादिविकल्पो वा, सोऽस्यास्तीति मत्सरिकस्तद्भावो मत्सरिकता तां च, चैवशब्दः समुच्चये, अतिचारभावना पुनरियम् - यदाऽनाभोगादिनाऽतिक्रमादिना वा एतानाचरति तदाऽतिचारः, अन्यदा तु भङ्ग इति गाथार्थः ||३२||” इति अभयदेवसूरिविरचितवृत्तिसहिते पञ्चाशके ॥ पृ० ५९ पं० १२ ॥ "बंधो दुविहो दुपदाणं चतुष्पदाणं च अट्ठाए अणट्ठाए य । अणट्ठाए ण णिरवेक्खो निच्चलं धणितं बज्झति, साविक्खो जं संसरपासएण आलीवणगादिसु य जं सक्केति छिंदितुं वट्टति, अट्ठाए सावेक्खो णिरवेक्खो य । मुंचितुं वा दामगंठिणा, एवं चतुप्पदाणं वा Jain Education International For Private & Personal Use Only विशिष्टानि टिप्पणानि २४७ www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy