Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 319
________________ सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम् २४६ सेवते, दर्भवस्त्रं वा शुद्धवस्त्रं वा भूम्यां संस्तृणाति, कायिकाभूमेश्चागत: पुनरपि संस्तारकं प्रत्युपेक्षते, अन्यथाऽतिचार: स्यात्, एवं पीठादिष्वपि विभाषेति, एते चत्वारोऽप्यतिचारा: सर्वतोऽव्यापारपोषध एव भवन्ति, अतिचारता चैषां स्पष्टैवेति, तथा सम्यक् यथाऽऽगमम्, चशब्दः समुच्चये, अननुपालनम् अनासेवनम्, आहारादिष्विति विषयविषयिणोः षष्ठीसप्तम्योश्चाभेदाहारपोषधप्रभृतीनां सर्वेषां समस्तानामव्यापारपोषधपर्यवसानानामिति, भावना चास्यैवम्-कृतपोषधोऽस्थिरचित्तः सन्नाहारे तावत्सर्वमाहारं तद्देशं वा प्रार्थयते, द्वितीयदिवसे चात्मार्थमादरं कारयति, शरीरसत्कारे शरीरमुबर्तयति, दंष्ट्रिके केशान् रोमाणि वा श्रृङ्गाराभिप्रायेण संस्थापयति, दाहे वा सति शरीरं सिञ्चति, ब्रह्मचर्ये त्वैहलौकिकान् पारलौकिकान् वा भोगान् प्रार्थयते, शब्दरूपसगन्धस्पर्शान् वाऽभिलषति, ब्रह्मचर्यपोषधः कदा पूर्णो भविष्यति ?, त्याजिता ब्रह्मचर्येणेति वा चिन्तयति, अव्यापारे सावधानि व्यापारयति, विशिष्टानि कृतमकृतं वा चिन्तयतीत्येवं पञ्चातिचारविशुद्धोऽयमनुपालनीय इति गाथार्थः ॥३०॥ उक्तं सातिचारं तृतीयं शिक्षाव्रतं, अधुना चतुर्थमुच्यते - टिप्पणानि . अण्णाईणं सुद्धाण कप्पणिज्जाण देसकालजुतं । दाणं जईणमुचियं गिहीण सिक्खावयं भणियं ॥३१॥ अन्नाईणं० गाहा । अन्नादीनां भोजनप्रभृतीनाम्, आदिशब्दात् पानवस्त्रौषधादिपरिग्रहः, अनेन च हिरण्यादिव्यवच्छेदमाह, शुद्धानां न्यायागतानाम्, न्यायश्च द्विजक्षत्रियविट्शूद्राणां शुद्धस्ववृत्त्यनुष्ठानं, अनेन चान्यायागतानां निषेधमाह, कल्पनीयानाम् उद्गमादिदोषवर्जितानाम्, अनेन त्वकल्पनीयानां प्रतिषेधमाह, देशकालयुतं प्रस्तावोचितं, यत: काले दत्तं महोपकारकारि दानं स्यात्, अभिधीयते च-"काले दिण्णस्स पहेणयस्स अग्यो न तीरए काउं। तस्सेव अथक्कपणामिअस्स गिण्हतया नत्थि ॥१॥"[ ] अथवा देशकालयुतं क्षेत्रकालयुतं क्षेत्रकालोचितं, यद्यत्र देशे काले वोचितमित्यर्थः, दानं वितरणं, यतिभ्यो मुनिभ्यः, उचितं संगतम्, गृहिणां श्रमणोपासकानाम्, शिक्षाव्रतमुक्तशब्दार्थम्, भणितम् उक्तमतिथिसंविभागव्रतमित्यर्थः, इह भोजनार्थं भोजनकालोपस्थाय्यतिथिरुच्यते, तत्रात्मार्थं निष्पादिताहारस्य श्रमणोपासकगृहिण: साधुरेवातिथि:, तिथिपर्वादिसकललौकिकव्यवहारत्यागात्, तदुक्तम्-“तिथिपर्वोत्सवा: सर्वे, त्यक्ता येन महात्मना । अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुः ॥१॥" तस्यातिथे: संगतो निर्दोषो विभागः पश्चात्कर्मादिदोषपरिहारायांशदानरूपोऽतिथिसंविभागः स एव व्रतमतिथिसंविभागव्रतमिति, अत्र वृद्धोक्ता सामाचारी-श्रावकेण पारयता नियमात्साधुभ्यो दत्त्वा पारयितव्यम्, अन्यदा पुनरनियमो-दत्त्वा वा पारयति पारयित्वा वा ददाति, तस्मात्पूर्वं साधुभ्यो दत्त्वा पश्चात्पारयितव्यम्, कथम् ?, यदा देशकालो भवति तदाऽऽत्मनो विभूषां कृत्वा साधूंस्तत्प्रतिश्रयं गत्वा निमन्त्रयते-'भिक्षां गृह्णीते'ति, साधूनां २४६ Jain Education International For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379