Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
सवृत्ति धर्मबिन्दौ
चतुर्थं परिशिष्टम्
२४४
Jain Education International
तमाकारयति तदा व्रतसापेक्षत्वाच्छब्दानुपातो रूपानुपातश्चातिचार इति, तथा तेनैव प्रकारेण विवक्षितजनस्यागमनार्थतालक्षणेन बहियत्ति बहिस्ताद्विवक्षितक्षेत्रात् पुत्रलक्षेपं शर्करादिप्रक्षेपम्, देशावकाशिकव्रतं हि गृह्यते मा भूगमनागमनादिव्यापरजनित: प्राण्युपमर्द इत्यभिप्रायेण स च स्वयं कृतोऽन्येन वा कारित इति न कश्चित् फले विशेषः, प्रत्युत गुणः स्वयंगमने, ईर्यापथविशुद्धेः, परस्य पुनरनिपुणत्वात्तदशुद्धिरिति, इह चाद्यद्वयमव्युत्पन्नबुद्धित्वेन सहसाकारादिना वा, अन्त्यत्रयं तु व्याजपरस्यातिचारतां यातीति, इहाहुर्वृद्धा: - दिग्व्रतसंक्षेपकरणं अणुव्रतादिसंक्षेपकरणस्याप्युपलक्षणं द्रष्टव्यम्, तेषामपि संक्षेपस्यावश्यं कर्तव्यत्वात्, प्रतिव्रतं च संक्षेपकरणस्य भिन्नव्रतत्वेन द्वादश व्रतानीति संख्याविरोधः स्यादिति, अत्र केचिदाहुः - दिव्रतसंक्षेप एव देशावकाशिकम्, तदतिचाराणां दिव्रतानुसारितयैवोपलम्भात्, अत्रोच्यते, यथोपलक्षणतया शेषव्रतसंक्षेपकरणमपि देशावकाशिकमुच्यते तथोपलक्षणतयैव तदतिचारा अपि तदनुसारिणो द्रष्टव्याः, अथवा प्राणातिपातादिसंक्षेपकरणेषु बन्धादय एवातिचारा घटन्ते, दिग्व्रतसंक्षेपे तु संक्षिप्तत्वात् क्षेत्रस्य शब्दानुपातादयोऽपि स्युरिति भेदेन दर्शिताः, न च सर्वेषु व्रतभेदेषु विशेषतोऽतिचारा दर्शनीयाः, रात्रिभोजनादिव्रतभेदेषु तेषामदर्शितत्वादिति गाथार्थः ॥२८॥ उक्तं सातिचारं द्वितीयं शिक्षाव्रतं, साम्प्रतं तृतीयमुच्यते -
आहारदेहसक्कारबंभवावारपोसहो यऽन्नं । देसे सव्वे य इमं चरमे सामाइयं णियमा ॥ २९ ॥
आहार० गाहा । पोषं पुष्टिं प्रक्रमाद्धर्मस्य धत्ते करोतीति पोषधः पर्वदिनानुष्ठानं, आहारश्च अशनादिर्देहसत्कारश्च शरीरभूषा ब्रह्म च ब्रह्मचर्यमव्यापारश्च आरम्भवर्जनमिति द्वन्द्वस्तेषु विषये तैर्वा निमित्तभूतैः पोषध आहारदेहसत्कारब्रह्माव्यापारपोषधः, आद्ययोर्वर्जनमन्त्ययोश्चासेवनमित्यर्थः चशब्दः पुनरर्थः, अन्यद् देशावकाशिकादपरं तृतीयं शिक्षाव्रतम्, इदं च चतुर्विधमपि द्विधेत्याह-देशे आहारादीनां देशविषये सव्वेत्ति सर्वस्मिन् निरवशेषे आहारादौ चशब्दः समुच्चयार्थः, इमंति इदं पोषधव्रतं भवतीति गम्यम्, तत्र च चरमे अंतिमे भेदे सर्वतोऽव्यापारपोषधाख्ये कृते सति सामायिकं प्रथमं शिक्षाव्रतं नियमाद् अवश्यंभावेन, कर्तव्यं भवति इति गम्यम्, अन्यथा सामायिकफललाभाभावः स्यात्, इह च भावार्थो वृद्धोक्तोऽयम् आहारपोषधो द्विविधो-देशसर्वभेदात्, तत्र देशे विवक्षितविकृते [रविकृते १ २ सं० ]राचामाम्लस्य वा सकृदेव द्विरेव वा भोजनमिति, सर्वतस्तु चतुर्विधस्याप्याहारस्याहोरात्रं यावत्प्रत्याख्यानम्, शरीरसत्कारपोषधस्तु स्नानोद्वर्तनवर्णकविलेपनपुष्पगन्धविशिष्टवस्त्राभरणपरित्यागः, सोऽपि देशसर्वभेदाद् द्विधा, तत्र देशे कस्यापि शरीरसत्कारविशेषस्याकरणम्, सर्वतस्तु सर्वस्यापि तस्याकरणम्, ब्रह्मचर्यपोषधोऽपि देशतः सर्वतश्च तत्र देशे दिवैव रात्रावेव वा सकृदेव द्विरेव वाऽब्रह्मासेवनं, सर्वतस्त्वहोरात्रं यावद् ब्रह्मचर्यपालनम्, अव्यापारपोषधोऽपि देशतः सर्वतश्च तत्र देशत एकतरस्य कस्यापि व्यापारस्याकरणम्, सर्वतस्तु सर्वेषामपि
For Private & Personal Use Only
विशिष्टानि टिप्पणानि
२४४
www.jainelibrary.org
Loading... Page Navigation 1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379