Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 315
________________ सवत्तिके | धर्मबिन्दौ चतुर्थ परिशिष्टम् २४२ कृत्वेयाँ प्रतिक्रान्तो बन्दित्वा पृच्छति वा पठति वा, स च किल सामायिकं कुर्वन् मुकुटं कुण्डले नाममुद्रां चापनयति, पुष्पताम्बूलप्रा(प्र.)वारादिकं च व्युत्सृजतीत्येष विधि: सामायिकस्येति गाथार्थः ॥२५।। अस्यैवातिचारानाह - ___मणवयणकायदुप्पणिहाणं इह जत्तओ विवज्जेइ । सइअकरणयं अणवट्ठियस्स तह करणयं चेव ॥२६॥ मण० गाहा। मनोवचनकायानां मानसवाक्शरीराणां दुष्प्रणिधानं सावद्ये प्रवर्तनं मनोवचनकायदुष्प्रणिधानम्, इह सामायिके यत्नत: आदरेण विवर्जयति परिहरत इति त्रयोऽमी अतिचाराः, तथा स्मृतेः स्मरणस्य सामायिकविषयाया अकरणमेवाकरणकम् अनासेवनं स्मृत्यकरणकम्, एतदुक्तं भवति-प्रबलप्रमादान्नैवं स्मरति यदुतास्यां वेलायां मया सामायिकं कर्तव्यम्, कृतं न कृतं वेति, स्मृतिमूलं च मोक्षानुष्ठानमिति, तथाऽनवथितस्य तथाऽनवाथतस्य विशिष्टानि अस्थिरस्वरूपस्य सामायिकस्य तथा तेनैव प्रकारेण प्रबलप्रमादादिलक्षणेन करणमेव करणकम् आसेवनम्, यः सामायिकं करणानन्तरमेव त्यजति टिप्पणानि । यथाकथञ्चिद्वा करोति तस्यानवस्थितकरणभित्यमिधीयते, चैवशब्दः समुच्चये, अपिचेत्यादिशब्दवत्, अयमेषां भावार्थ: सामाइयं तु काउं घरचिंतं जो य चिंतए सो। अट्टवसट्टोवगओ निरत्थयं तस्स सामइयं ॥१॥ कडसामइओ पुग्विं बुद्धीए पेहिऊण भासेज्जा । सइ निरवज्ज वयणं अन्नह सामाइयं न भवे ॥२॥ अनिरिक्खियापमज्जिय थंडिल्ले ठाणमाइ सेवंतो। हिंसाभावेऽवि न सो कडसामइओ पमायाओ ॥३॥ न-सरह पमायजुत्तो जो सामइयं कया उ कायव्वं ? । कयमकयं वा ? तस्स हु कयंपि विहलं तयं नेयं ॥४॥ काऊण तक्खणं चिय पारेइ करेंइ वा जहिच्छाए । अणवडियसामइयं अणायराओ न तं सुद्धं ॥५॥ [ ] ननु मनोदुष्प्रणिधानादिषु सामायिकस्य निरर्थकत्वादिप्रतिपादनेन वस्तुतोऽभाव एव प्रतिपादितः, अतिचारश्च मालिन्यरूप एव भवतीति स कथं सामायिकाभावे?, अतो भका एवैते, नातिचाराः, सत्यम्, किंत्वनाभोगतोऽतिचारा इति भावना । ननु द्विविधंत्रिविधेन सावधप्रत्याख्यानं सामायिकम्, तत्र च मनोदुष्प्रणिधानादौ प्रत्याख्यानभन्नात् सामायिकाभाव एव तद्भाजनितं प्रायश्चित्तं च स्यात्, मनोदुष्प्रणिधानं च दुष्परिहार्यम्, मनसोऽनवस्थितत्वात्, अत: सामायिकप्रतिपत्तेः सकाशात्तदप्रतिपत्तिरेव श्रेयसीति, नैवम्, यतः सामायिकं द्विविधंत्रिविधेन प्रतिपन्नम्, तत्र च मनसा सावद्यं न करोमीत्यादीनि षट् प्रत्याख्यानानीत्येकतप्रत्याख्यानभनेऽपि शेषसद्भावान्न सामायिकस्यात्यन्ताभावः, मिध्यादुष्कृतेन मनोदुष्प्रणिधानमात्रशुद्धेश्च, सर्वविरतिसामायिकेऽपि Jan Education International For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379