________________
सवत्तिके | धर्मबिन्दौ चतुर्थ
परिशिष्टम्
२४२
कृत्वेयाँ प्रतिक्रान्तो बन्दित्वा पृच्छति वा पठति वा, स च किल सामायिकं कुर्वन् मुकुटं कुण्डले नाममुद्रां चापनयति, पुष्पताम्बूलप्रा(प्र.)वारादिकं च व्युत्सृजतीत्येष विधि: सामायिकस्येति गाथार्थः ॥२५।। अस्यैवातिचारानाह -
___मणवयणकायदुप्पणिहाणं इह जत्तओ विवज्जेइ । सइअकरणयं अणवट्ठियस्स तह करणयं चेव ॥२६॥ मण० गाहा। मनोवचनकायानां मानसवाक्शरीराणां दुष्प्रणिधानं सावद्ये प्रवर्तनं मनोवचनकायदुष्प्रणिधानम्, इह सामायिके यत्नत: आदरेण विवर्जयति परिहरत इति त्रयोऽमी अतिचाराः, तथा स्मृतेः स्मरणस्य सामायिकविषयाया अकरणमेवाकरणकम् अनासेवनं स्मृत्यकरणकम्, एतदुक्तं भवति-प्रबलप्रमादान्नैवं स्मरति यदुतास्यां वेलायां मया सामायिकं कर्तव्यम्, कृतं न कृतं वेति, स्मृतिमूलं च मोक्षानुष्ठानमिति, तथाऽनवथितस्य
तथाऽनवाथतस्य विशिष्टानि अस्थिरस्वरूपस्य सामायिकस्य तथा तेनैव प्रकारेण प्रबलप्रमादादिलक्षणेन करणमेव करणकम् आसेवनम्, यः सामायिकं करणानन्तरमेव त्यजति
टिप्पणानि । यथाकथञ्चिद्वा करोति तस्यानवस्थितकरणभित्यमिधीयते, चैवशब्दः समुच्चये, अपिचेत्यादिशब्दवत्, अयमेषां भावार्थ:
सामाइयं तु काउं घरचिंतं जो य चिंतए सो। अट्टवसट्टोवगओ निरत्थयं तस्स सामइयं ॥१॥ कडसामइओ पुग्विं बुद्धीए पेहिऊण भासेज्जा । सइ निरवज्ज वयणं अन्नह सामाइयं न भवे ॥२॥ अनिरिक्खियापमज्जिय थंडिल्ले ठाणमाइ सेवंतो। हिंसाभावेऽवि न सो कडसामइओ पमायाओ ॥३॥ न-सरह पमायजुत्तो जो सामइयं कया उ कायव्वं ? । कयमकयं वा ? तस्स हु कयंपि विहलं तयं नेयं ॥४॥ काऊण तक्खणं चिय पारेइ करेंइ वा जहिच्छाए । अणवडियसामइयं अणायराओ न तं सुद्धं ॥५॥ [ ]
ननु मनोदुष्प्रणिधानादिषु सामायिकस्य निरर्थकत्वादिप्रतिपादनेन वस्तुतोऽभाव एव प्रतिपादितः, अतिचारश्च मालिन्यरूप एव भवतीति स कथं सामायिकाभावे?, अतो भका एवैते, नातिचाराः, सत्यम्, किंत्वनाभोगतोऽतिचारा इति भावना । ननु द्विविधंत्रिविधेन सावधप्रत्याख्यानं सामायिकम्, तत्र च मनोदुष्प्रणिधानादौ प्रत्याख्यानभन्नात् सामायिकाभाव एव तद्भाजनितं प्रायश्चित्तं च स्यात्, मनोदुष्प्रणिधानं च दुष्परिहार्यम्, मनसोऽनवस्थितत्वात्, अत: सामायिकप्रतिपत्तेः सकाशात्तदप्रतिपत्तिरेव श्रेयसीति, नैवम्, यतः सामायिकं द्विविधंत्रिविधेन प्रतिपन्नम्, तत्र च मनसा सावद्यं न करोमीत्यादीनि षट् प्रत्याख्यानानीत्येकतप्रत्याख्यानभनेऽपि शेषसद्भावान्न सामायिकस्यात्यन्ताभावः, मिध्यादुष्कृतेन मनोदुष्प्रणिधानमात्रशुद्धेश्च, सर्वविरतिसामायिकेऽपि
Jan Education International
For Private & Personal use only
www.jainelibrary.org