________________
सवृत्तिके धर्मबिन्दी
चतुर्थं
परिशिष्टम्
२४३
तथाऽभ्युपगतत्वात्, यतो गुप्तिभने [ ऽपि S.] मिथ्यादुष्कृतं प्रायश्चित्तमुक्तम्, यदाह - "बीओ उ असमिओ मि त्ति कीस ? सहसा अगुत्तो वा ? ' [ आवश्यक १४३९], द्वितीयोऽतिचार: समित्यादिभङ्गरूपः, अनुतापेन शुध्यतीत्यर्थः, इति न प्रतिपत्तेरप्रतिपत्तिर्गरीयसीति, किंच- सातिचारानुष्ठानादप्यभ्यासतः कालेन निरतिचारमनुष्ठानं भवतीति सूरयो, यदाहुः - अभ्यासोऽपि प्रायः प्रभूतजन्मानुगो भवति शुद्धः [ षोडशक० ] इति, तथा यदिहोक्तं पौषधशालायां सामायिक करोति, तत्रैकाकिन एव पौषधशालायां प्रवेश इति केचन मन्यन्ते 'एगे अबीए' [ ] इत्या[द्याs.] गमवचनश्रवणात्, तत्रोच्यते, नायमेकान्तः, वचनान्तरस्यापि श्रवणात्, तथा हि व्यवहारभाष्येऽभिहितम् - रायसुयाई पंच वि पोसहसालाए संमिलिया [ ] इत्यलं प्रसंगेनेति गाथार्थः ॥२६॥ उक्तं सातिचारं प्रथमं शिक्षाव्रतम्, अधुना द्वितीयमाह -
दिसिवयगहियस्स दिसापरिमाणस्सेह पइदिणं जं तु । परिमाणकरणमेयं अवरं खलु होइ विण्णेयं ॥ २७ ॥ दिसिवय० गाहा । दिग्व्रतमुक्तस्वरूपं तत्र गृहीतम् अभ्युपगतं दिग्व्रतगृहीतं तस्य, दिक्परिमाणस्य ऊर्ध्वादिदिग्गमनप्रमाणस्य, दीर्घकालिकस्येति गम्यम्, इह शिक्षाव्रतेषु, प्रतिदिनम् अनुदिवसम्, एतच्चोपलक्षणं प्रहरादेः, यत्तु यत्पुनः परिमाणकरणं संक्षिप्ततरदिक् प्रमाणग्रहणमित्यर्थः, एतद् एवंविधं परिमाणकरणम्, अपरं प्रथमादन्यत् द्वितीयं शिक्षाव्रतं देशावकाशिकं देशे दिग्व्रतगृहीतपरिमाणस्य विभागेऽवकाशः अवस्थानं देशावकाशस्तेन निर्वृत्तं देशावकाशिकम्, स वा यत्रास्ति तद्देशावकाशिकमिति, खलुर्वाक्यालङ्कारे, भवति वर्तते, विज्ञेयं ज्ञातव्यमिति गाथार्थः ||२७|| अत्रातिचारानाह
Jain Education International
वज्जइ इह आणयणप्पओग पेसप्पओगयं चेव । सद्दाणुरूववायं तह बहिया पोग्गलक्खेवं ॥ २८ ॥
वज्जइ० गाहा । वर्जयति परिहरते, इह द्वितीयशिक्षाव्रते, आनयने विवक्षितक्षेत्राद् बहिर्वर्तमानस्य सचेतनादिद्रव्यस्य विवक्षितक्षेत्रप्रापणे प्रयोगः स्वयंगमने व्रतभङ्गभयादन्यस्य संदेशकादिना व्यापारणमानयनप्रयोगोऽतस्तम्, इह च प्राकृतत्वादनुस्वारस्याश्रवणम्, तथा प्रेष्यस्य आदेश्यस्य प्रयोगो विवक्षितक्षेत्राद् बहिः प्रयोजनाय स्वयंगमने व्रतभङ्गभयादन्यस्य व्यापारणं प्रेष्यप्रयोगः, स एव प्रेष्यप्रयोगकोऽतस्तम्, चैवशब्दः समुच्चये, सद्दाणुरूववायंति शब्दाणूनां रूपस्य च पातः आह्वानीयस्य श्रोत्रे दृष्टौ च पातनं शब्दाणुरूपपातस्तम्, अथवा प्राकृतत्वाच्छन्दोभङ्गभयादेवं निर्देशः, अन्यथा 'सद्दरूवाणुवायं' इति वाच्यं स्यात्, तत्र शब्दस्य कासितादे रूपस्य च स्वशरीरसम्बन्धिनोऽनुपातो विवक्षितक्षेत्राद् बहिः स्थितस्याह्वानीयस्य श्रोत्रे दृष्टौ च पातनं शब्दरूपानुपातोऽतस्तम्, विवक्षितक्षेत्राद् बहिः स्थितं कञ्चन नरं व्रतभङ्गभयादाह्वातुमशक्नुवन् यदा कासितादिशब्दश्रावणस्वकीयरूपसंदर्शनव्याजेन
For Private & Personal Use Only
विशिष्टानि टिप्पणानि
२४३
www.jainelibrary.org