________________
सवत्तिके धर्मबिन्दौ
चतुर्थ परिशिष्टम्
२४१
Jain Education International
भवे तस्स ॥१॥ [आव०नि० १०५१] इति, न च जिनस्नपनादि गर्हितकर्मेति, अत्रोच्यते, एवं तर्हि साधोरपि तत्करणप्रसङ्गः, यतो न सावद्यलक्षणस्य साधुश्रावकावाश्रित्य भेदोऽभिहितः, तथा सामाइयंमि उ कए समणो इव सावओ हवइ जम्हा। एएण कारणेणं बहुसो सामाइयं कुज्जा ||१|| [आव०नि० ८०१] इत्येतद्द्राथोक्तं सामायिकवतः साधुना सह सादृश्यं स्नपनादिविधौ नोपपद्यते, साधूनां तत्रानधिकारात्, तथा स्नपनादि कृतदेहविभूषेण कर्त्तव्यम्, सामायिकं तु विभूषाविमुक्तेन, तथा भावस्तवारूढस्य द्रव्यस्तवेन न किञ्चन, तदर्थमेव तस्येष्टत्वात्, किंच यथा तस्य स्नपनादि विधेयं तथा चैत्यसत्कारामकर्षणसेचनगाननृत्ताद्यप्यविगानेन विधेयं प्राप्नोति, भवन्नीत्या निरवद्यत्वाविशेषात् न च सामायिकसामाचार्यामेतदेतत्सूचकं वा वचनमुपलभ्यते, साधुसमानता तूपलभ्यत इति, अत्र पुनः सामाचारी - इह श्रावको द्विविधः - ऋद्धिप्राप्तोऽनृद्धिकश्च योऽसावनृद्धिक: स चैत्यगृहे साधुसमीपे वा गृहे वा पौषधशालायां वा यत्र वा विश्राम्यति निर्व्यापारो वाऽऽस्ते तत्र सर्वत्र तत्करोति, चतुर्षु स्थानेषु पुनर्नियमात्करोति, तद्यथा चैत्यगृहे साधुसमीपे पौषधशालायां स्वगृहे वाऽऽवश्यकं कुर्वाणः, तत्र यदि साधुसमीपे करोति तदाऽयं विधिः- यदि परंपरभयं नास्ति, यदि केनापि समं विवादो नास्ति, यदि कस्यापि द्रव्यं न धारयति मा भूत्तत्कृताकर्षापकर्षिका, यदि च धारणकं दृष्ट्वा न गृह्णाति मा भूद्भङ्गः, यदि च व्यापारं न करोति, तदा स्वगृह एव सामायिकं कृत्वा व्रजति पञ्चसमितस्त्रिगुप्तः ईर्यायामुपयुक्तः यथा साधुः, भाषायां सावद्यं परिहरन्, एषणायां काष्ठं वा लेष्टुं वाऽनुज्ञाप्य प्रत्युपेक्ष्य प्रमृज्य च गृह्णन्, एवमादाने निक्षेपे च, तथा खेलसिंघाणादीन्न विवेचयति, विवेचयंश्च स्थण्डिलं प्रत्युपेक्षते प्रमार्ष्टि च यत्र तिष्ठति तत्रापि गुप्तिनिरोधं करोति, अनेन विधिना गत्वा त्रिविधेन साधून्नत्वा सामायिकं करोति - "करेमि भंते ! सामाइयं सावज्जं जोगं पच्चक्खामि जाव साहू पज्जुवासामि दुविहं तिविण" इत्याद्युच्चारणतः, तत ईर्यापथिकायाः प्रतिक्रामति, पश्चादालोच्य वन्दते आचार्यादीन् यथारात्निकतया, पुनरपि गुरुं वन्दित्वा प्रत्युपेक्ष्य निविष्टः पृच्छति वा पठति वा, एवं चैत्येष्वपि, यदा तु स्वगृहे पौषधशालायां वा तदा गमनं नास्ति, यः पुनः ऋद्धिप्राप्तः स सर्वदुर्ष्या याति, तेन जनस्यास्था भवति, आट्टताश्च साधवः सुपुरुषपरिग्रहेण भवन्ति, यदि त्वसौ कृतसामायिक एति तदाऽश्व हस्त्यादिभिरधिकरणं स्यात्, तच्च न वर्तते कर्तुमित्यसौ तन्न करोति, तथा कृतसामायिकेन पादाभ्यामेवागन्तव्यमिति च तन्न करोति, तथा यद्यसौ श्रावकस्तदा तं न कोऽप्यभ्युत्तिष्ठति, अथ यथाभद्रकस्तदा पूजा कृता भवत्विति पूर्वरचितमासनं क्रियते, आचार्याश्चोत्थिता एवासते, मोत्थानानुत्थानकृता दोषा भूवन्, पश्चादसावृद्धिप्राप्तश्रावक: सामायिकं करोति, कथम् ? “करेमि भंते ! सामाइयं सावज्जं जोगं पच्चक्खामि दुविहं तिविहेणं जाव नियमं पज्जुवासामि" इत्यादि, एवं सामायिक
For Private & Personal Use Only
विशिष्टानि टिप्पणानि
२४१
www.jainelibrary.org