SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दी चतुर्थ परिशिष्टम् २४० | विशिष्टानि टिप्पणानि पापोपदेशसंभवात् ३, तथाऽधिक्रियते नरकादिष्वनेनात्मेत्यधिकरणं वास्युदूखल-शिलापुत्रक-गोधूमयन्त्रकादि, संयुतं संयुक्तमर्थक्रियाकरणयोग्यं तच्च तदधिकरणं चेति संयुताधिकरणं, तत्र सामाचारी-श्रावकेण न संयुक्तानि शकटादीनि धारयितव्यानीति, अयं च हिंम्रप्रदानव्रतस्य, तथोपभोगपरिभोगयोः उक्तनिर्वचनयोः अतिरेकता आधिक्यमुपभोगपरिभोगातिरेकता तां च, चशब्द: समुच्चये, अत्र अनर्थदण्डविरतौ वर्जयति परिहरते, इहापि सामाचारी-उपभोगातिरिक्तानि यदि बहूनि तैलामलकानि गृह्णाति तदा तल्लौल्येन बहवः स्नातुं तडागादौ व्रजन्ति, ततश्च पूतरकाप्कायादिवधोऽधिक: स्यात्, एवं ताम्बूलादिष्वपि विभाषा, न चैवं कल्पते, ततः को विधिरुपभोगे?, तत्र स्नाने तावद्ह एव स्नातव्यम्, नास्ति चेत्तत्सामग्री तदा तैलामलकैः शिरो घर्षयित्वा तानि च सर्वाणि साटयित्वा तडागादीनां तटे निविष्टोऽञ्जलिभि: स्नाति, तथा येषु पुष्पादिषु कुन्थ्वादय: सन्ति तानि परिहरतीति, अयं च प्रमादाचरितव्रत एव, विषयात्मकत्वादस्य, अपध्यानाचरितव्रते त्वनाभोगादिनाऽपध्याने प्रवृत्तिरतिचारः, कंदर्पादय आकुट्या क्रियमाणा भङ्गा एवावसेया इति गाथार्थः ॥२४॥ ___ उक्तं सातिचारं तृतीयं गुणव्रतम्, तदुक्तावुक्तानि गुणव्रतानि, अधुना शिक्षाव्रतान्युच्यन्ते, तत्र शिक्षा अभ्यासस्तत्प्रधानानि व्रतानि शिक्षाव्रतानि पुनः पुनरासेवार्हाणीत्यर्थः, तानि च सामायिकादीनि चत्वारि, तत्र तावत्सामायिकमाह - सिक्खावयं तु एत्थं सामाइयमो तयं तु विण्णेयं । सावज्जेयरजोगाण वज्जणासेवणारूवं ॥२५॥ __सिक्खा० गाहा । शिक्षाव्रतमुक्तशब्दार्थम्, अथवा शिक्षा ग्रहणासेवारूपा परमपदसाधिका विशिष्टचेष्टा, तत्प्रधानं व्रतं तस्या वा पदं शिक्षापदं शिक्षाव्रतं वा, तुशब्द: पुनरर्थः, तस्य चैवं प्रयोग:-गुणव्रतं तावद्दिव्रतादि, शिक्षाव्रतं पुनरत्र श्रावकधर्मे सामायिकमिति, समस्य रागद्वेषवियुक्तस्य जीवस्यायो लाभ: समायः, समो हि प्रतिक्षणमपूर्वैनिदर्शनचारित्रपर्यायनिरुपमसुखहेतुभिरध:कृतचिन्तामणिकल्पद्रुमोपमैयुज्यते, समायः प्रयोजनमस्य क्रियानुष्ठानस्येति सामायिकम्, ओ इति निपात: पादपूरणे, अन्ये त्वविभक्तिकनिर्देशं कृत्वा मो निपात इति व्याख्यान्ति, तकं तु तत्पुन: सामायिक विज्ञेयं ज्ञातव्यम्, सावद्येतरयोगानां सपापनिष्पापव्यापाराणां यथासङ्ख्यं वर्जनासेवनरूपं परिहारानुष्ठानस्वभावं, विविक्षितकालावधिनेति गम्यते, तस्मिन् गृहीते द्विविधंत्रिविधेनेति विकल्पनारम्भादिपरिहार: स्वाध्यायादिविधिश्च विधेय इति भावना । इह च केचिन्मन्यन्ते-प्रतिपन्नसामायिकस्य जिनस्नपनपूजादि कुर्वतोऽपि न दोषो, निरवद्ययोगत्वात्तस्य, यत: सावधयोगलक्षणमिदम्-कम्ममवज्जं जंगरहियंति कोहाइणो य चत्तारि। सह तेहि जो उ जोगो पच्चक्खाणं २४० Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy