SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम् २३९ तहऽणत्थदंडविरई अण्णं स चउब्विहो अवज्झाणे। पमयायरिए हिंसप्पयाणपावोवएसे य ॥२३॥ तह० गाहा । तथा तेनैव प्रकारेण भोगव्रतमिवाणुव्रतोपकारित्वलक्षणेन, अर्थ: प्रयोजनं तत्प्रतिषेधोऽनर्थः, दण्ड्यत आत्माऽनेनेति दण्डो निग्रहः, अनर्थेन दण्डोऽनर्थदण्डः, इहलोकप्रयोजनमङ्गीकृत्य निष्प्रयोजनभूतोपमर्दैनात्मनो निग्रह इत्यर्थः, तस्मात्तस्य वा विरति: उपरमोऽनर्थदण्डविरति:, किमित्याह-अन्यत् द्वितीयगुणव्रतापेक्षयाऽपरम्, तृतीयं गुणव्रतं भवतीति हृदयम्, स इति स चानर्थदण्डश्चतुर्विधः चतुष्प्रकारो भवति, चातुर्विध्यमेवाह-अपध्याने निष्प्रयोजनदुष्टध्यानविषय इत्यर्थः ?, अथवैकारान्तशब्दस्य प्रथमैकवचनान्तत्वेन दर्शनादपध्यानम्, तच्चैवम्-कइया वच्चति सत्थो ! किं भंडं ? कत्थ ? केत्तिया भूमी ! । को कयविक्कयकालो ? निविसये किं ? कहिं ? केण ? ॥१॥[ ] इत्यादि १, तथा विशिष्टानि पमयायरिएत्ति इह छन्दोभङ्गभयात् ‘पमाय' इति वाच्ये 'पमय' इत्युक्तम्, तत्र प्रमादो मद्यविषयकषायनिद्राविकथालक्षण: तेन तस्य वा आचरितम् टिप्पणानि अनुष्ठानं प्रमादाचरितं तस्मिन् विषये, प्रमादाचरितमेव वा, अनर्थदण्डता चास्योक्तशब्दार्थद्वारेण स्वबुद्धया दृश्या, अथवा प्रमादाचरितम् आलस्योपहतकृत्यम्, तच्चास्थगिततैलघृतभाजनधारणादि सत्त्वोपघातहेतुभूतमिति २, तथा हिंसनधर्मकं हिंसं हिंसाहेतुत्वाद्वा हिंसा आयुधानलहलविषादि, तस्य प्रदानम् अन्यस्मै समर्पणं हिंम्रप्रदानं हिंसाप्रदानं वा ३, तथा पापं पापहेतुभूतं कृष्यादिकर्म तस्योपदेशः प्रवर्तनं पापोपदेशः, अनयोश्च समाहारद्वन्द्वे हिंस्रप्रदानपापोपदेशं तत्र विषये, हिंम्रप्रदानपापोपदेशमेव वा, अनर्थदण्ड इति हृदयम्, चशब्द: समुच्चयार्थः । एवं चतुर्विधोऽनर्थदण्ड इति गाथार्थः ॥२३॥ अत्रातिचारानाह कंदप्पं कुक्कुइयं मोहरियं संजुयाहिंगरणं च । उवभोगपरीभोगाइरेगयं चेत्थ वज्जेइ ॥२४॥ कंदप्पं० गाहा । कंदर्प: कामस्तद्धेतुविशिष्टो वाक्प्रयोगोऽपि कंदर्प एव, मोहोद्दीपकं वाक्कर्मेति भावः, तं वर्जयतीति योगः, इह च सामाचारी-श्रावकस्यादृट्टहासो न कल्पते कर्तुम्, यदि नाम हसितव्यं तदेषदेवेति १, तथा कुत्कुच: कुत्सितसंकोचनादिक्रियायुक्तस्तद्भाव: कौत्कुच्यम्-अनेकप्रकारा मुखनयनादिविकारपूर्विका परिहासादिजनिता(का) भाण्डानामिव विडम्बनक्रियेत्यर्थः, अत्र सामाचारी तादृशानि भणितुं न कल्पन्ते यादृशैलॊकस्य हास उत्पद्यते, एवं गत्या गन्तुं स्थानेन वा स्थातुमिति, एतौ च कंदर्पकौत्कुच्याख्यावतिचारौ प्रमादाचरितव्रतस्यावसेयौ, २३९ प्रमादरूपत्वात्तयोः, तथा मुखमस्यातीति मुखरस्तद्भाव: कर्म वेति मौखयं धाष्टप्रायमसत्यासम्बद्धप्रलापित्वम्, अयं च पापोपदेशव्रतस्यातिचारः, मौखर्ये Vain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy