Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 313
________________ सवृत्तिके धर्मबिन्दी चतुर्थ परिशिष्टम् २४० | विशिष्टानि टिप्पणानि पापोपदेशसंभवात् ३, तथाऽधिक्रियते नरकादिष्वनेनात्मेत्यधिकरणं वास्युदूखल-शिलापुत्रक-गोधूमयन्त्रकादि, संयुतं संयुक्तमर्थक्रियाकरणयोग्यं तच्च तदधिकरणं चेति संयुताधिकरणं, तत्र सामाचारी-श्रावकेण न संयुक्तानि शकटादीनि धारयितव्यानीति, अयं च हिंम्रप्रदानव्रतस्य, तथोपभोगपरिभोगयोः उक्तनिर्वचनयोः अतिरेकता आधिक्यमुपभोगपरिभोगातिरेकता तां च, चशब्द: समुच्चये, अत्र अनर्थदण्डविरतौ वर्जयति परिहरते, इहापि सामाचारी-उपभोगातिरिक्तानि यदि बहूनि तैलामलकानि गृह्णाति तदा तल्लौल्येन बहवः स्नातुं तडागादौ व्रजन्ति, ततश्च पूतरकाप्कायादिवधोऽधिक: स्यात्, एवं ताम्बूलादिष्वपि विभाषा, न चैवं कल्पते, ततः को विधिरुपभोगे?, तत्र स्नाने तावद्ह एव स्नातव्यम्, नास्ति चेत्तत्सामग्री तदा तैलामलकैः शिरो घर्षयित्वा तानि च सर्वाणि साटयित्वा तडागादीनां तटे निविष्टोऽञ्जलिभि: स्नाति, तथा येषु पुष्पादिषु कुन्थ्वादय: सन्ति तानि परिहरतीति, अयं च प्रमादाचरितव्रत एव, विषयात्मकत्वादस्य, अपध्यानाचरितव्रते त्वनाभोगादिनाऽपध्याने प्रवृत्तिरतिचारः, कंदर्पादय आकुट्या क्रियमाणा भङ्गा एवावसेया इति गाथार्थः ॥२४॥ ___ उक्तं सातिचारं तृतीयं गुणव्रतम्, तदुक्तावुक्तानि गुणव्रतानि, अधुना शिक्षाव्रतान्युच्यन्ते, तत्र शिक्षा अभ्यासस्तत्प्रधानानि व्रतानि शिक्षाव्रतानि पुनः पुनरासेवार्हाणीत्यर्थः, तानि च सामायिकादीनि चत्वारि, तत्र तावत्सामायिकमाह - सिक्खावयं तु एत्थं सामाइयमो तयं तु विण्णेयं । सावज्जेयरजोगाण वज्जणासेवणारूवं ॥२५॥ __सिक्खा० गाहा । शिक्षाव्रतमुक्तशब्दार्थम्, अथवा शिक्षा ग्रहणासेवारूपा परमपदसाधिका विशिष्टचेष्टा, तत्प्रधानं व्रतं तस्या वा पदं शिक्षापदं शिक्षाव्रतं वा, तुशब्द: पुनरर्थः, तस्य चैवं प्रयोग:-गुणव्रतं तावद्दिव्रतादि, शिक्षाव्रतं पुनरत्र श्रावकधर्मे सामायिकमिति, समस्य रागद्वेषवियुक्तस्य जीवस्यायो लाभ: समायः, समो हि प्रतिक्षणमपूर्वैनिदर्शनचारित्रपर्यायनिरुपमसुखहेतुभिरध:कृतचिन्तामणिकल्पद्रुमोपमैयुज्यते, समायः प्रयोजनमस्य क्रियानुष्ठानस्येति सामायिकम्, ओ इति निपात: पादपूरणे, अन्ये त्वविभक्तिकनिर्देशं कृत्वा मो निपात इति व्याख्यान्ति, तकं तु तत्पुन: सामायिक विज्ञेयं ज्ञातव्यम्, सावद्येतरयोगानां सपापनिष्पापव्यापाराणां यथासङ्ख्यं वर्जनासेवनरूपं परिहारानुष्ठानस्वभावं, विविक्षितकालावधिनेति गम्यते, तस्मिन् गृहीते द्विविधंत्रिविधेनेति विकल्पनारम्भादिपरिहार: स्वाध्यायादिविधिश्च विधेय इति भावना । इह च केचिन्मन्यन्ते-प्रतिपन्नसामायिकस्य जिनस्नपनपूजादि कुर्वतोऽपि न दोषो, निरवद्ययोगत्वात्तस्य, यत: सावधयोगलक्षणमिदम्-कम्ममवज्जं जंगरहियंति कोहाइणो य चत्तारि। सह तेहि जो उ जोगो पच्चक्खाणं २४० Jain Education International For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379