Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
सवृत्तिके धर्मबिन्दौ
चतुर्थ
परिशिष्टम्
२३८
हुत्ति पाठः, तत्रापिशब्दः पुनरर्थ एव, हुशब्दः पूरणे, ततश्च भोजनतोऽत्र व्रते सचित्तभक्षणादि वर्जयति, कर्मत: पुनरत्र द्वितीये गुणव्रतेऽङ्गारकर्मादि वर्जयतीति योगः, कर्मतो हि द्वितीयगुणव्रते पञ्चदशातिचारा भवन्ति, तदुक्तम्इंगाले १ वण २ साडी ३ भाडी ४ फोडीसु ५ वज्जए कम्मं । वाणिज्जं चेव य दंत १ लक्ख २ रस ३ केस ४ विस ५ विसयं ॥१॥
एवं खु जंतपीलणकम्मं १ नीलंछणं च २ दवदाणं ३ । सरदहतलायसोसं ४ असईपोसं च ५ वज्जेज्जा ॥२॥[सावयपण्णत्ती २८७]
भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम्-अङ्गारकर्मेति अङ्गारान् कृत्वा विक्रीणीते, तत्र षण्णां जीवनिकायानां वध: स्यात्ततस्तन्न कल्पते १, वनकर्म यद्वनं क्रीणाति, ततस्तच्छित्त्वा विक्रीय मूल्येन जीवति, एवं पत्रादीन्यपि प्रतिषिद्धानि भवन्ति २, शकटीकर्म यच्छाकटिकत्वेन जीवति, विजिति तत्र गवादीनां बन्धवधादयो दोषाः स्युः ३, भाटीकर्म यत् स्वकीयेन तन्त्रेण भाटकेन परकीयं भाण्डं वहत्यन्येषां वा शकटबलीवदीनर्पयतीति ४
टिप्पणानि स्फोटीकर्म उपत्वं यद्वा हलेन भूमेः स्फोटनम् ५, दन्तवाणिज्यं यत्पूर्वमेव पुलिन्द्राणां मूल्यं ददाति दन्तान्मे यूयं दद्यातेति, ततस्ते हस्तिनो घ्नन्ति, अचिरादसौ वाणिजक एष्यतीति कृत्वा, एवं कर्मकराणां शंखमूल्यं ददाति, पूर्वानीतांस्तु क्रीणाति ६, लाक्षावाणिज्यमप्येवमेव, दोषस्तु तत्र कृमयो भवन्ति ७, रसवाणिज्यं कल्पपालत्वम्, तत्र च सुरादावनेके दोषा मारणाक्रोशवधादयः ८, केशवाणिज्यं यद्दास्यादीन् गृहीत्वाऽन्यत्र विक्रीणीते, अत्राप्यनेके दोषा: परवशित्वादय: ९, विषवाणिज्यं विषविक्रय:, स च न कल्पते, यतस्तेन बहूनां जीवानां विराधना स्यात् १०, यन्त्रपीडनकर्म तिलेक्षुयन्त्रादिना तिलादिपीडनम् ११, निर्लाञ्छनकर्म गवादीनां वर्द्धितककरणम् १२ दवाग्निकर्म यद्वनदवं ददाति क्षेत्ररक्षणनिमित्तं यथोत्तरापथे, दग्धे हि तत्र तरुणं तृणमुत्तिष्ठति, तत्र च सत्त्वशतसहस्राणां वध: स्यात् १३, सरो-हद-तडागपरिशोषणं यत्सर:प्रभृतीनि शोषयति, तत्र च धान्यमुप्यते १४, असतीपोषणं यद्योनिपोषका दासी: पोषयन्ति, तत्सम्बन्धिनी च भाटीं गृह्णन्ति, यथा गोल्लविषय इति १५, दिङ्मात्रप्रदर्शनं चैतद् बहुसावद्यानां कर्मणामेवंजातीयानां, न पुनः परिगणनमिति, इह चैवं विंशतिसङ्ख्यातिचाराभिधानमन्यत्रापि पञ्चातिचारसंख्यया तज्जातीयानां व्रतपरिणामकालुष्यनिबन्धनविधीनामपरेषां संग्रहो द्रष्टव्य इति ज्ञापनार्थम्, तेन स्मृत्यन्तर्धानादयो यथासंभवं सर्वव्रतेष्वतिचारा दृश्या इति । नन्वङ्गारकर्मादयः कस्मिन् व्रतेऽतिचारा: ?, खरकर्मादिव्रत इति चेत्तर्हि व्रतविषयस्यातिचाराणां च कः परस्परं विशेष: ?, खरकर्मादिवतिना एते परिहार्याः, यदा पुनरेतेष्वनाभोगादिना प्रवर्तन्ते तदा खरकर्मव्रतातिचारा भवन्ति, यदा त्वाकुट्ट्या तदा भङ्गा एवेति गाथार्थः ॥२२॥ उक्तं सातिचारं द्वितीयं गुणव्रतमिदानीं तृतीयमाह -
२३८
Jain Education International
For Private
Personal use a
www.jainelibrary.org
Loading... Page Navigation 1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379