Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 310
________________ सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम् २३७ सच्चित्तं गाहा। श्रावकेण हि भोजनत: किलोत्सर्गतो निरवद्याहारेण भाव्यम्, कर्मतश्च प्रायो निरवद्यकर्मानुष्ठानेन, अतस्तदपेक्षया यथासंभवममी अतिचारा दृश्याः, तत्र च भोजनतस्तावदाह-सचित्तं सचेतनं कन्दादि, इह च सर्वत्र निवृत्तिविषयीकृतप्रवृत्तावप्यतिचाराभिधानं व्रतसापेक्षस्यानाभोगातिक्रमादिनिबन्धनप्रवृत्त्या द्रष्टव्यम्, अन्यथा भङ्ग एव स्यात्, अतस्तनिवृत्तिविषयीकृतं भक्ष्यतया वर्जयतीति योगः, तथा प्रतिबद्धं संबद्धं सचित्तवृक्षेषु गुंदादि पक्वफलादि वा, तद्भक्षणं हि सावद्याहारवर्जकस्य सावद्याहारप्रवृत्तिरूपत्वादनाभोगादिनाऽतिचारः, अथवाऽस्थिकं त्यक्ष्यामि, तस्यैव सचेतनत्वात्, कटाहं तु भक्षयिष्यामि, तस्याचेतनत्वात्, इति बुद्धया पक्वं खजूरादिफलं मुखे प्रक्षिपत: सचित्तवर्जकस्य सचित्तप्रतिबद्धाहारोऽतिचारः, तथा अपउलत्ति अपक्वं च अग्निनाऽसंस्कृतं दुप्पउलत्ति दुष्पक्वं च अर्धस्विन्नं, तुच्छत्ति तुच्छं च नि:सारमिति द्वन्द्वः, तेषाम्, धान्यानामिति गम्यम्, विशिष्टानि भक्षणम् अदनं तदेव स्वार्थिक कप्रत्यये सत्यपक्वदुष्पक्वतुच्छभक्षणकम्, नन्वपक्वौषधयो यदि . सचेतनास्तदा टिप्पणानि सचित्तमित्याद्यपदेनैवोक्तार्थत्वात्पुनर्वचनमसंगतम्, अथाचेतनास्तदा कोऽतिचार: ?, निरवद्यत्वात्तद्भक्षणस्येति, सत्यम्, किंत्वाद्यावतिचारौ सचेतनकन्दफलादिविषयौ इतरे तु शाल्याद्योषधिविषया: इति विषयकृतो भेदः, अत एव मूलसूत्रे-अपउलिओसहिभक्खणया[ .. ] इत्याद्युक्तम्, ततोऽनाभोगातिक्रमादिना अपक्वौषधिभक्षणमतिचारः, अथवा कणिक्कादेरपक्वतया संभवात्सचित्तावयवस्य पिष्टत्वादिनाऽचेतनमिदमिति बुद्धया भक्षणं व्रतसापेक्षत्वादतिचारः, दुष्पक्वौषधिभक्षणं तु पृथुकादेर्दुष्पक्वतया संभवात्सचेतनावयवस्य पक्वत्वादचेतनमिति बुद्ध्या भुञानस्यातिचारः, ननु तुच्छौषधयोऽपक्वा दुष्पक्वा: सम्यक् पक्वा वा स्युः?, यद्याद्यौ पक्षौ तदा तृतीयचतुर्थातिचाराभ्यामेवास्योक्तत्वात्पुनरुक्तत्वदोषः, अथ सम्यक् पक्वास्तदा निरवद्यत्वादेव काऽतिचारता तद्भक्षणस्येति ?, सत्यम्, किंतु यथाऽऽद्यद्वयस्योत्तरद्वयस्य च सचित्तत्वे समानेऽप्यनोषध्योषधिकृतो विशेष:, एवमत्र सचेतनत्वौषधित्वाभ्यां समानत्वेऽप्यतुच्छत्वतुच्छत्वकृतो विशेषो दृश्य:, तत्र च कोमलमुगादिफलीर्विशिष्टतृप्त्यकारकत्वेन तुच्छा: सचेतना एवानाभोगातिक्रमादिना भुञानस्य तुच्छौषधिभक्षणमतिचारः, अथवाऽत्यन्तावद्यभीरुतयाऽचित्ताहारताऽभ्युपगता, तत्र च यत्तृप्तिकारकं तदचेतनीकृत्यापि भक्षयतु, सचेतनस्यैव वर्जनीयत्वाभ्युपगमात्, यत्पुनस्तृप्तिसंपादनासमर्था अप्योषधीलौल्येनाचेतनीकृत्य भुङ्क्ते तत्तुच्छौषधिभक्षणमतिचारः, तत्र भावतो विरतेविराधितत्वाद् द्रव्यतस्तु पालितत्वादिति, एवं रात्रिभोजनमांसादिव्रतेष्वप्यनाभोगातिक्रमादिभिरतिचारा भावनीयाः, अथ कर्मव्रतातिचारानाह-वर्जयति २३७ परिहरते, कम्मयओ वि यत्ति कर्मकतः, इह कप्रत्यय: स्वार्थिको गाथापूरणार्थः, तेन कर्मत: कर्माश्रित्य, अपिचेति पुन:शब्दार्थः,, क्वचित् कम्मयओऽवि Jain Education International For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379