Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
सवृत्तिके धर्मबिन्दी चतुर्थ
परिशिष्टम्
२२७
च(च नास्ति ।१), तच्च कूटसाक्ष्यं च व्यंसकसत्यत्वं न्यासहरणकूटसाक्ष्यं तत्र च विषये, स्थूलमृषावादो भवतीति पञ्चविधत्वम्, अथवा न्यासहरणे कूटसाक्ष्ये च यदलीकं तत्तदेवेति, कन्यागोभूम्यलीकं च न्यासहरणं च कूटसाक्ष्यं चेति समाहारद्वन्द्वः, प्रथमैकवचनस्थाने चैकारश्रुतिः प्राकृतत्वात् ‘कयरे तुम'मित्यादिवत् । तत्र कन्यालीकमभिन्नकन्यामितरां वक्ति, विपर्ययं वा, इदं च सर्वकुमारादिद्विपदविषयालीकोपलक्षणम्, गवालीकं पुनरल्पक्षीरां गां बहुक्षीरां विपर्ययं वा वक्ति, इदमपि सर्वचतुष्पदविषयालीकोपलक्षणम्, भूम्यलीकं तु परसत्कामप्यात्मादिसत्कां भुवं वक्ति, इदं च शेषपृथिव्याद्यपदद्रव्यविषयालीकोपलक्षणम्, अथ द्विपदचतुष्पदापदग्रहणमेव कस्मान्न कृतम् ?, अत्रोच्यते, कन्याद्यलीकानां लोकेऽतिगर्हितत्वेन . रूढत्वादिति, न्यासहरणं तुस्तेयस्वरूपम्, तत्र चापलापवचनं मृषावादः, इदं चैतेनैव विशेषेण पूर्वालीकेभ्यो भेदेनोपात्तम्, कूटसाक्ष्यं तूत्कोचा-मत्सराद्यभिभूतः विशिष्टानि प्रमाणीकृतः सन् कूटं वक्ति यथाऽस्याहमत्र साक्षी, अस्य च परकीयपापसमर्थकत्वलक्षणं विशेषमाश्रित्य पूर्वेभ्यो भेदेनोपन्यास इति गाथार्थः ॥११॥ र एतस्यैवातिचारानाह
इह सहसभक्खाणं रहसा य सदारमंतभेयं च । मोसोवएसयं कूडलेहकरणं च वज्जे ॥१२॥
इह सहस० गाहा । इह स्थूलमृषावादविरतौ सहसा अनालोच्याभ्याख्यानम् असदोषाध्यारोपणम्, यथा चौरस्त्वं पारदारिको वेत्यादि, तद्वर्जयतीति योगः, तथा रहसा एकान्तेन हेतुनाऽभ्याख्यानमिति वर्तते, एतदुक्तं भवति-रहसि मन्त्रयमाणानभिधत्ते-एते हीदं चेदं च राजविरुद्धादिकं मन्त्रयन्त इति, चशब्दो रहसेत्यस्याभ्याख्यानशब्देन संबन्धनार्थः, तथा स्वदारमन्त्रभेदं स्वकलत्रविश्रब्धभाषितान्यकथनम्, दारग्रहणं चेह मित्राद्युपलक्षणार्थम्, चशब्द: समुच्चये, तथा मृषा अलीकवदनविषय उपदेशो यस्य स तथा तद्भावस्तत्ता तां मृषोपदेशताम्, अथवा मृषोपदेश एव मृषोपदेशकः, इदमेवं चैवं च बृहीत्यादिकमसत्याभिधानशिक्षणमतस्तम्, तथा कूटलेखस्य असद्भूतार्थसूचकाक्षरलेखनस्य करणं विधानं कूटलेखकरणं तच्च, चशब्दः समुच्चये, वर्जयति परिहरति मृषावादबती, यत एतानि समाचरन्नतिचरति द्वितीयाणुव्रतमिति । नन्वाद्ययोरतिचारयोर्न परस्परं विशेषोऽसद्दोषारोपणस्योभयत्रापि तुल्यत्वात्, सत्यम्, केवलं रहोऽभ्याख्यानं रहोनिमित्तवितर्कमात्रपूर्वकं संभविनोऽभ्याख्येयार्थस्याभिधानम् इतरत्त्ववितर्कपूर्वकमेवेति विशेषः, नन्वभ्याख्यानमसद्दोषाभिधानरूपत्वेन प्रत्याख्यातत्वाद्भङ्ग एव, न त्वतिचार इति, सत्यम्, किंतु यदा परोपघातकमनाभोगादिनाऽभिधत्ते तदा संक्लेशाभावेन व्रतानपेक्षत्वाभावान व्रतस्य भनः परोपघातहेतुत्वाच्च भन इति भङ्गाभङ्गरूपोऽतिचारः, यदा पुनस्तीव्रसंक्लेशादभ्याख्याति तदा भङ्ग एव, व्रतनिरपेक्षत्वात्,
| २२७
Janoducation in
For Private & Personal Use Only
wow.jainelibrary.org
Loading... Page Navigation 1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379