SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दी चतुर्थ परिशिष्टम् २२७ च(च नास्ति ।१), तच्च कूटसाक्ष्यं च व्यंसकसत्यत्वं न्यासहरणकूटसाक्ष्यं तत्र च विषये, स्थूलमृषावादो भवतीति पञ्चविधत्वम्, अथवा न्यासहरणे कूटसाक्ष्ये च यदलीकं तत्तदेवेति, कन्यागोभूम्यलीकं च न्यासहरणं च कूटसाक्ष्यं चेति समाहारद्वन्द्वः, प्रथमैकवचनस्थाने चैकारश्रुतिः प्राकृतत्वात् ‘कयरे तुम'मित्यादिवत् । तत्र कन्यालीकमभिन्नकन्यामितरां वक्ति, विपर्ययं वा, इदं च सर्वकुमारादिद्विपदविषयालीकोपलक्षणम्, गवालीकं पुनरल्पक्षीरां गां बहुक्षीरां विपर्ययं वा वक्ति, इदमपि सर्वचतुष्पदविषयालीकोपलक्षणम्, भूम्यलीकं तु परसत्कामप्यात्मादिसत्कां भुवं वक्ति, इदं च शेषपृथिव्याद्यपदद्रव्यविषयालीकोपलक्षणम्, अथ द्विपदचतुष्पदापदग्रहणमेव कस्मान्न कृतम् ?, अत्रोच्यते, कन्याद्यलीकानां लोकेऽतिगर्हितत्वेन . रूढत्वादिति, न्यासहरणं तुस्तेयस्वरूपम्, तत्र चापलापवचनं मृषावादः, इदं चैतेनैव विशेषेण पूर्वालीकेभ्यो भेदेनोपात्तम्, कूटसाक्ष्यं तूत्कोचा-मत्सराद्यभिभूतः विशिष्टानि प्रमाणीकृतः सन् कूटं वक्ति यथाऽस्याहमत्र साक्षी, अस्य च परकीयपापसमर्थकत्वलक्षणं विशेषमाश्रित्य पूर्वेभ्यो भेदेनोपन्यास इति गाथार्थः ॥११॥ र एतस्यैवातिचारानाह इह सहसभक्खाणं रहसा य सदारमंतभेयं च । मोसोवएसयं कूडलेहकरणं च वज्जे ॥१२॥ इह सहस० गाहा । इह स्थूलमृषावादविरतौ सहसा अनालोच्याभ्याख्यानम् असदोषाध्यारोपणम्, यथा चौरस्त्वं पारदारिको वेत्यादि, तद्वर्जयतीति योगः, तथा रहसा एकान्तेन हेतुनाऽभ्याख्यानमिति वर्तते, एतदुक्तं भवति-रहसि मन्त्रयमाणानभिधत्ते-एते हीदं चेदं च राजविरुद्धादिकं मन्त्रयन्त इति, चशब्दो रहसेत्यस्याभ्याख्यानशब्देन संबन्धनार्थः, तथा स्वदारमन्त्रभेदं स्वकलत्रविश्रब्धभाषितान्यकथनम्, दारग्रहणं चेह मित्राद्युपलक्षणार्थम्, चशब्द: समुच्चये, तथा मृषा अलीकवदनविषय उपदेशो यस्य स तथा तद्भावस्तत्ता तां मृषोपदेशताम्, अथवा मृषोपदेश एव मृषोपदेशकः, इदमेवं चैवं च बृहीत्यादिकमसत्याभिधानशिक्षणमतस्तम्, तथा कूटलेखस्य असद्भूतार्थसूचकाक्षरलेखनस्य करणं विधानं कूटलेखकरणं तच्च, चशब्दः समुच्चये, वर्जयति परिहरति मृषावादबती, यत एतानि समाचरन्नतिचरति द्वितीयाणुव्रतमिति । नन्वाद्ययोरतिचारयोर्न परस्परं विशेषोऽसद्दोषारोपणस्योभयत्रापि तुल्यत्वात्, सत्यम्, केवलं रहोऽभ्याख्यानं रहोनिमित्तवितर्कमात्रपूर्वकं संभविनोऽभ्याख्येयार्थस्याभिधानम् इतरत्त्ववितर्कपूर्वकमेवेति विशेषः, नन्वभ्याख्यानमसद्दोषाभिधानरूपत्वेन प्रत्याख्यातत्वाद्भङ्ग एव, न त्वतिचार इति, सत्यम्, किंतु यदा परोपघातकमनाभोगादिनाऽभिधत्ते तदा संक्लेशाभावेन व्रतानपेक्षत्वाभावान व्रतस्य भनः परोपघातहेतुत्वाच्च भन इति भङ्गाभङ्गरूपोऽतिचारः, यदा पुनस्तीव्रसंक्लेशादभ्याख्याति तदा भङ्ग एव, व्रतनिरपेक्षत्वात्, | २२७ Janoducation in For Private & Personal Use Only wow.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy