________________
सवृत्तिके धर्मबिन्दी
चतुर्थ
परिशिष्टम्
२२८
विशिष्टानि टिप्पणानि
आह च-"सहसब्भक्खाणाईजाणतो, जइ करेज्ज तो भंगो। जइ पुणऽनाभोगाईहितो तो होइअइयारो॥१॥"[ ],स्वदारमंत्रभेदः पुनरनुवादरूपत्वेन सत्यत्वात् यद्यपि नातिचारो घटते तथापि मन्त्रितार्थप्रकाशनजनितलज्जादितः स्वदारादेर्मरणादिसंभवेन परमार्थतः तस्यासत्यत्वात् कथंचिद्भङ्गाभङ्गरूपत्वादतिचार एव, तथा मृषोपदेशो यद्यपि मृषा न वादयामीत्यत्र न वदामि न वादयामीत्यत्र वा व्रते भग एव, न वदामीति व्रतान्तरे तु न किञ्चन, तथापि सहसाकारानाभोगाभ्यामतिक्रमव्यतिक्रमातिचारैर्वा मृषावादे परप्रवर्तने व्रतस्यातिचारोऽयं, अथवा व्रतसंरक्षणबुद्ध्या परवृत्तान्तकथनद्वारेण मृषोपदेशं यच्छतोऽतिचारोऽयम्, व्रतसव्यपेक्षत्वात् मृषावादे परप्रवर्तनाच्च भनाभग्नरूपत्वाद् व्रतस्येति, कूटलेखकरणं तु यद्यपि कायेन मृषावादं न करोमीत्यस्य न करोमि न कारयामीत्यस्य वा व्रतस्य भङ्ग एव व्रतान्तरे तु न किञ्चन तथापि सहसाकारादिनाऽतिक्रमादिना वाऽतिचार:, अथवा मृषावाद इति मृषाभणनं मया प्रत्याख्यातमिदं पुनर्लेखनमिति भावनया मुग्धबुद्धेर्तृतसव्यपेक्षस्यातिचार इति गाथार्थः ॥१२॥ उक्तं सातिचारं द्वितीयमणुव्रतम्, अधुना तृतीयमाह
थूलादत्तादाणे विरई तं दुविहमो उ णिदिदं । सच्चित्ताचित्तेसुं लवणहिरण्णाइवत्थुगयं ॥१३॥ थूल० गाहा, स्थूलं च तददत्तस्य अवितीर्णस्य द्रव्यस्यादानं च ग्रहणं स्थूलादत्तानम्, इहादत्तं द्विविधं स्थूलं सूक्ष्मं च, तत्र परिस्थूलवस्तुविषयं चौर्यारोपणहेतुत्वेन प्रसिद्ध स्थूलम्, तद्विपरीतं तु सूक्ष्मम्, तत्र स्थूलादत्तादाने तद्विषया विरतिः निवृत्तिस्तृतीयमणुव्रतमिति प्रक्रमः, तत्तु तत् पुनरदत्तादानं द्विविधं द्विप्रकारम्, ‘ओं' इति 'मों' इति वा निपात: पादपूरणार्थः, तुशब्दः पुनरर्थो भिन्नक्रमञ्च, तत्तु इत्येवं योजित एव, निर्दिष्टं कथितमागम इति गम्यते, दुविहमो विणिद्दिटुं इति पाठान्तरम्, द्वैविध्यमेवाह-सच्चित्ताचित्तेसु । विद्यमानचैतन्याचैतन्येषु वस्तुषु, एतद्विषयमित्यर्थः, एतदेवोदाहरन्नाह-लवणं च क्षारविशेषो हिरण्यं च सुवर्णमादिर्येषां तानि, तथा तानि च तानि वस्तूनि च तेषु गतम् अवस्थितं लवणहिरण्यादिवस्तुगतम्, तत्र लवणशब्देन सच्चित्तादत्तादानमुदाहृतम्, हिरण्यशब्देनाचित्तादत्तादानम्, आदिशब्दाच्चाश्व-वस्त्रादिपरिग्रहः, मिश्रादत्तादानं त्वनयोरेवान्तर्भूतत्वान्न पृथग्विवक्षितम्, संक्षेपस्यैव प्रस्तुतत्वादिति गाथार्थः ॥१३॥ इहातिचारानाह
___ वज्जइ इह तेणाहडतक्करजोगं विरुद्धरज्जं च । कूडतुलकूडमाणं तप्पडिरूवं च ववहारं ॥१४॥ वज्जइ० गाहा, वर्जयति परिहरते, इह अदत्तादानविरतौ, स्तेना: चौरास्तैराहृतम् आनीतं किञ्चित् कुङ्कुमादि स्तेनाहृतम्, तस्करा: चौरास्तेषां
૨૨૮
Jain Education International
For Private & Personal use only
www.jainelibrary.org