SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दी चतुर्थ परिशिष्टम् २२९ योगो हरणक्रियायां प्रेरणं हरत यूयम्' इत्यभ्यनुज्ञा तस्करयोगः, स्तेनाहृतं च तस्करयोगश्चेति समाहारद्वन्द्वस्तत्, तथा विरुद्धः स्वकीयस्य राज्ञः प्रतिपन्थी तस्य राज्यं कटकं देशो वा विरुद्धराज्यम्, तद्वर्जयति, गमनत इति शेषः, चशब्द: समुच्चये, तथा कूटा प्रसिद्धस्वभावापेक्षया न्यूनाऽधिका वा तुला प्रतीता कूटतुला, सा च मानं च न्यूनमधिकं वा कुडवादि कूटतुलाकूटमानं तद् वर्जयतीति योगः, तथा तेनाधिकृतेन व्रीह्यादिना घृतादिना वा प्रतिरूपं सदृशं पलंज्यादि वसादि वा द्रव्यं यत्र व्यवहारे स तत्प्रतिरूपः, तत्प्रतिरूपेण वा सुवर्णादिसदृशेन युक्तिसुवर्णादिना द्रव्येण यो व्यवहार: स तदभेदोपचारात्तत्प्रतिरूप एवोच्यते, अतस्तं तत्प्रतिरूपम्, चशब्दः समुच्चये, व्यवहारं विक्रयं वर्जयति, यत एतानि समाचरन्नतिचरति तृतीयाणुव्रतम्, अतिचारभावना चैवम्-स्तेनाहृतं काणक्रयेण लोभदोषात् प्रच्छन्नं गृह्णश्चौरो भवति, यदाह-चौरश्चौरापको मंत्री, भेदज्ञ: काणकक्रयी । अन्नदः स्थानदश्चैव, विशिष्टानि चौर: सप्तविधः स्मृतः ॥१॥[ ], ततश्चौर्यकरणाद् व्रतभको वाणिज्यमेव मया विधीयते न चोरिकेत्यध्यवसायेन च व्रतानपेक्षत्वाभावादभा टिप्पणानि इति भकाभारूपोऽतिचारः, तस्करप्रयोगस्तु यद्यपि चौर्यं न करोमि न कारयामीत्येवंप्रतिपन्नव्रतस्य भङ्ग एव, तथापि 'किमधुना यूयं निर्व्यापारास्तिष्ठथ ? यदि वो भक्तकादि नास्ति तदाहं तद्ददामि, भवदानीतमोषस्य वा यदि विक्रायको न विद्यते तदाऽहं विक्रेष्ये' इत्येवंविधवचनैश्चौरान् व्यापारयत: स्वकल्पनया तद्व्यापारणं परिहरतो व्रतसापेक्षस्यासावतीचार इति, विरुद्धराज्यातिक्रमस्तु यद्यपि स्वस्वामिनाऽननुज्ञातस्य परकटकादिप्रवेशस्य “सामीजीवादत्तं तित्थयरेणं तहेव य गुरूहि । ] इत्यदत्तादानलक्षणयोगेन विरुद्धराज्यातिक्रमकारिणां च चौर्यदण्डयोगेनादत्तादानरूपत्वान एव तथापि विरुद्धराज्यातिक्रमं कुर्वता मया वाणिज्यमेव कृतम्, न चौर्यमिति भावनया व्रतसापेक्षत्वात् लोके च चौरोऽयमिति व्यपदेशाभावादतिचारोऽयमिति, तथा कूटतुलादिव्यवहारस्तत्प्रतिरूपकव्यवहारश्च परव्यंसनेन परधनग्रहणरूपत्वाद्भङ्ग एव, केवलं क्षत्रखननादिकमेव चौर्य कूटतुलादिव्यवहारतत्प्रतिरूपव्यवहारौ तु वणिक्कलैवेति स्वकीयकल्पनया व्रतरक्षणोद्यततयाऽतिचार इति, अथवा स्तेनाहृतग्रहणादयः पञ्चाप्यमी व्यक्तचौर्यरूपा एव, केवलं सहसाकारादिनाऽतिक्रम-व्यतिक्रमादिना वा प्रकारेण विधीयमाना अतीचारतया व्यपदिश्यन्त इति, न चैते राजराजसेवकादीनां न संभवन्ति, तथाहि-आद्ययोः स्पष्ट एव तेषां संभवः, विरुद्धराज्यातिक्रमस्तु यदा सामन्तादिः स्वस्वामिनो वृत्तिमुपजीवति तद्विरुद्धस्य च सहायीभवति तदा तस्यातिचारो भवति, कूटतुलादयस्तु यदा भाण्डागारद्रव्याणां विनिमयं कारयति तदा राज्ञोऽप्यतिचारा: स्युरिति गाथार्थः ॥१४॥ उक्तं सातिचारं तृतीयाणुव्रतम्, साम्प्रतं चतुर्थमाह २२९ Jan Education International For Private&Personal use Only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy