________________
दास्यते
सवृत्तिके धर्मबिन्दौ चतुर्थं परिशिष्टम्
भवति तथा सर्वत्र यतनया
बन्धादीनामतिचारतेति, अपना प्रत्याख्येयत्वेऽपि विवरतरखण्डितत्वात्, अथ बाल
२२६ |
ह्यन्यथा म्रियते, सोऽप्यानर्थादिभेदो बन्धवद् द्रष्टव्यः, नवरं सापेक्षो रोगचिकित्सार्थं स्यात्, अपराधकारिणि च वाचैव वदेत्-‘अद्य ते न दास्यते भोजनादि', शान्तिनिमित्तं वोपवासं कारयेत्, किं बहुना ?, यथा मूलगुणस्य प्राणातिपातविरमणस्यातिचारो न भवति तथा सर्वत्र यतनया यतितव्यमिति । ननु प्राणातिपात एव प्रत्याख्यातस्ततो बन्धादिकरणेऽपि न दोषः, विरतेरखण्डितत्वात्, अथ बन्धादयोऽपि प्रत्याख्यातास्तदा तत्करणे व्रतभङ्ग एव, विरतिखण्डनात्, किंच-बन्धादीनां प्रत्याख्येयत्वेऽपि विवक्षितव्रतेयत्ता विशीर्येत, प्रतिव्रतं पञ्चानामतिचारवतानामाधिक्यात्, इत्येवं न बन्धादीनामतिचारतेति, अत्रोच्यते-सत्यम्, प्राणातिपात एव प्रत्याख्यातो, न बन्धादयः, केवलं तत्प्रत्याख्यानेऽर्थतस्तेऽपि प्रत्याख्याता इव द्रष्टव्याः, तदुपायत्वात्तेषाम्, न च बन्धादिकरणेऽपि व्रतभङ्गः, किं तु अतिचार एव, कथम् ?, इह द्विविधं व्रतम्-अन्तर्वृत्त्या बहिर्वृत्त्या च, तत्र मारयामीति विशिष्टानि विकल्पाभावेन यदा कोपाद्यावेशात् परप्राणप्रहाणमविगणयन् बन्धादौ प्रवर्तते, न च प्राणघातो भवति, तदा दयावर्जिततया विरत्यनपेक्षप्रवृत्तित्वेनान्तर्वृत्त्या |
टिप्पणानि व्रतस्य भङ्गः, प्राणिघाताभावाच्च बहिर्वृत्त्या पालनमिति देशस्य भञ्जनाद्देशस्यैव च पालनादतिचारव्यपदेश: प्रवर्तते, तदुक्तम्
"न मारयामीतिकृतव्रतस्य, विनैव मृत्युं क इहातिचार: ? | निगद्यते यः कुपितो वधादीन्, करोत्यसौ स्यान्नियमेऽनपेक्षः ॥१॥ मृत्योरभावान्नियमोऽस्ति तस्य, कोपाड्याहीनतया तु भग्नः । देशस्य भङ्गादनुपालनाच्च, पूज्या अतीचारमुदाहरन्ति ॥२॥"[ ] इति ।
यच्चोक्तं 'व्रतेयत्ता विशीर्यत' इति तदयुक्तम्, विशुद्धहिंसादिविरतिसद्भावे हि बन्धादीनामभाव एवेति, तदेवं बन्धादयोऽतिचारा एवेति, बन्धादिग्रहणस्य चोपलक्षणत्वान्मन्त्रतन्त्रप्रयोगादयोऽन्येऽप्येवमत्रातिचारतया दृश्या इति गाथार्थः ॥१०॥ उक्तं सातिचारं प्रथमाणुव्रतम्, अथ द्वितीयमाह
थूलमुसावायस्स य विरई सो पंचहा समासेणं । कण्णागोभोमालिय णासहरणकूडसक्खिज्जे ॥११।।। थूल० गाहा, स्थूल: परिस्थूलवस्तुविषयोऽतिदुष्टविवक्षासमुद्भवः स चासौ मृषावादश्च अनृतवदनं स्थूलमृषावादस्तस्य, न तु सूक्ष्मस्य, महाव्रतविषयत्वात्तस्य । चशब्दः पुनरर्थः । तस्यैवं प्रयोग:-स्थूलप्राणवधस्य विरतिः प्रथमाणुव्रतम्, स्थूलमृषावादस्य पुनर्विरति: निवृत्तिर्द्वितीयमणुव्रतम्, भवतीति गम्यते, स इति स्थूलमृषावादः, पञ्चधा पञ्चभिः प्रकारैः, कथम् ? समासेन संक्षेपेण, कन्यालीकादिभिरुपलक्षणवचनैः सकलमृषावादभेदानां संग्रहात्, पञ्चविधत्वमेवाह-कन्या च कुमारी, गौश्च बहुला, भूमिश्च भूरिति द्वन्द्वः, तासु विषयेऽलीकम् अनृतं कन्यागोभूम्यलीकम्, इहानुस्वारस्याश्रवणमलीकशब्दे च हस्वत्वश्रुतिः प्राकृतशैलीवशात्, तथा न्यस्यते रक्षणायान्यस्मै समर्प्यत इति न्यासो रूपकादिस्तस्य हरणं न्यासहरणं
२२६
Jain Education International
For Private & Personal use only
www.jainelibrary.org