________________
सवृत्तिके धर्मबिन्दौ
चतुर्थ परिशिष्टम्
२२५
Jain Education International
पृ० ५९ पं० ७–पृ०७२।। अभयदेवसूरिविरचितवृत्तिसहितेन पञ्चाशकेन सह अस्य सर्वस्यापि ग्रन्थस्य तुलना अवश्यं द्रष्टव्या, तथाहि - "बंधवहं छविछेयं अड़भारं भत्तपाणवोच्छेयं । कोहाइदूसियमणो गो-मणुयाईण णो कुणइ ॥ १० ॥
वर्जयतीमानतिचारानित्युक्तं, अथ तानेव अकरणीयतया प्रतिषेधयन्नाह - बंधवहं० गाहा, बन्धश्च रज्जुदामकादिभिः संयमनं वधश्च कशादिभिर्हननम्, बन्धवधमिति समाहारद्वन्द्वः, तन्न करोतीति सम्बन्धः, छविः त्वक् तद्योगाच्छरीरमपि छविस्तस्याः छेदः असिपुत्रिकादिभिः पाटनं छविच्छेदस्तम्, बंधवधछविच्छेदमिति पाठान्तरं व्यक्तं च, वहत्ति व्यधमित्यन्ये, तथा भरणं भारः अतीव भारोऽतिभारः प्रभूतस्य पूगफलादेर्गवादिपृष्ठादावारोपणमतस्तम्, तथा भक्तपानयोः भोजनोदकयोर्व्यवच्छेदो निरोधो भक्तपानव्यवच्छेदस्तम्, इह समुच्चयार्थश्चशब्दो लुप्तो द्रष्टव्यः, एवमविशेषेण बन्धादीनामकरणीयतयोपदेशे सति प्रियपुत्रादेर्विनयग्राहणरोगचिकित्साद्यर्थानामपि तेषां व्रतमालिन्यनिमित्तता प्रसज्यते, ततस्तत्परिहारार्थमाह-क्रोधादिदूषितमनाः कोपलोभादिकषायकलङ्कितान्तःकरणः, प्राणिप्राणप्रहाणनिरपेक्ष इत्यर्थः, सापेक्षस्य तु बन्धादिकरणेऽपि सदयत्वान्नातिचार इत्युक्तं भवति, अनेन च यदुक्तं प्राग् भावार्थसङ्गतमिति तदुपदर्शितम्, यत आगमे निर्विशेषणा एवामी दर्शिता इतीह गम्यम्, गो-मनुष्यादीनां बलीवर्द - नरप्रभृतीनाम्, आदिशब्दात्करि - करभ-रासभादिपरिग्रहः, नो नैव करोति विदधाति, एतत्करणे हि व्रतस्य मालिन्यप्राप्तेरिति, यच्च वर्जयतीति क्रियायामनुवर्तमानायामपि न करोतीत्युक्तं तदेतेषामत्यर्थं परिहारार्थमिति, अत्र चायमावश्यकचूर्ण्याद्युक्तो विधिः-बन्धो द्विपदानां चतुष्पदानां वा स्यात्, सोऽप्यर्थायानर्थाय वा, तत्रानर्थाय तावन्नासौ विधातुं युज्यते, अर्थाय पुनरसौ द्विविधः स्यात् - सापेक्षो निरपेक्षश्च, तत्र निरपेक्षो नाम यन्निश्चलमत्यर्थं बध्यते, सापेक्षः पुनर्यद्दामग्रन्थिना, यश्च बद्धः सन् शक्यते प्रदीपनकादिषु विमोचयितुं वा छेतुं वा, एवं तावच्चतुष्पदानां बन्धः, तथा द्विपदानामपि दासो वा दासी वा चौरो वा पाठादिप्रमत्तः पुत्रो वा यदि बध्यते तदा सविक्रमेणैव बन्धनीयो रक्षणीयश्च तथा यथाऽग्निभयादिषु न विनश्यति, तथा ते किल द्विपदचतुष्पदाः श्रावकेण संग्रहीतव्या येऽबद्धा एवासत इति, वधोऽपि तथैव, नवरं निरपेक्षवधो निर्दयताडना, सापेक्षवधः पुनरेवम्-आदित एव भीतपर्षदा श्रावकेण भवितव्यम्, यदि पुनर्न करोति कोऽपि विनयं तदा तं मर्माणि मुक्त्वा लतया दवरकेण वा सकृद् द्विर्वा ताडयेदिति, छविच्छेदोऽपि तथैव, नवरं निरपेक्षो हस्तपादकर्णनासिकादि यन्निर्दयं छिनत्ति, सापेक्षः पुनर्यद्गण्डं वाऽरुर्वा छिन्द्याद्वा दहेद्वेति, तथाऽतिभारो नारोपयितव्यः, पूर्वमेव हि या द्विपदादिवाहनेन जीविका सा श्राद्धेन मोक्तव्या, अथान्याऽसौ न भवेत्तदा द्विपदो यं भारं स्वयमुत्क्षिपत्यवतारयति च तं वाह्यते, चतुष्पदस्य तु यथोचितभारादौ किञ्चिदून: क्रियते, हलशकटादिषु पुनरुचितवेलायामसौ मुच्यत इति । तथा भक्तपानव्यवच्छेदो न कस्यापि कर्तव्यः, तीक्ष्णबुभुक्षो
For Private & Personal Use Only
विशिष्टानि टिप्पणानि
२२५
www.jainelibrary.org