________________
सवृत्तिके धर्मबिन्दौ
चतुर्थं परिशिष्टम्
२२४
Jain Education International
पृ० ४२ पं० २ ॥ “चित्तमेव हि संसारो, रागादिक्लेशवासितम्। तदेव तैर्विनिर्मुक्तं भवान्त इति कथ्यते ॥ ४०४॥ यदुदितं तदाह- चित्तमित्यादिना । चित्तमेव हि विज्ञानमेव संसार:, किंभूतं चित्तमित्याह - रागादिक्लेशवासितं युक्तम्, तदेव चित्तं रागादिक्लेशैर्विनिर्मुक्तं सत् भवान्त इति कथ्यते, अपवर्ग इत्यर्थः ॥ ४०४|| इति शास्त्रवार्तासमुच्चये स्वोपज्ञवृत्तिसहिते श्लोकोऽयमुद्धृतो व्याख्यातश्च ॥ पृ०४२ ११ ॥ “हिंसा -ऽनृतादयः पञ्च तत्त्वाश्रद्धानमेव च । क्रोधादयश्च चत्वार इति पापस्य हेतवः ||४|| हिंसा - नृत- स्तेयाऽब्रह्म-परिग्रहाः, आदिशब्दादवरोधेऽप्यनृतग्रहणं प्राधान्यख्यापनार्थम्, तत्त्वाश्रद्धानमेव च मिथ्याभिनिवेश इति भावः, क्रोधादयश्च चत्वारः क्रोध-मान-माया लोभाः इति एवं त एवंप्रकारा वा पापस्य हेतवः, अशुभकर्म्मबन्धजनका इत्यर्थः ॥४॥” इति स्वोपज्ञवृत्तिसहिते शास्त्रवार्तासमुच्चये ॥
पृ० ४९ पं० ३ ॥ यथोक्तं निशीथे । अत्रेदं ध्येयम् गाथेयं निशीथभाष्ये सम्प्रति नोपलभ्यते, किन्तु बृहत्कल्पभाष्ये उपलभ्यते । तद्यथा"संसारदुक्खमहणो विबोहओ भवियपुंडरीयाणं । धम्मो जिणपन्नत्तो पकप्पजइणा कयव्व ॥ ११३५ ॥
संसार एव जन्म-जरा-मरणादि दुःखनिबन्धनत्वाद् दुःखम्, संसारस्य वा दुःखानि शारीर मानसिकलक्षणानि, तस्य तेषां वा मथन: विनाशकः, तथा भव्या एव विनयादिविमलगुणपरिमलयोगाद् ज्ञानादिलक्ष्मीनिवासयोग्यतया च पुण्डरीकाणि श्वेतसरोरुहाणि तेषां विशेषेण मिथ्यात्वादिनिद्राविद्रावणलक्षणेन बोधकः सम्यग्दर्शनादिविकाशकारी, ईदृशो जिनप्रज्ञप्तो धर्म: प्रकल्पयतिना निशीथाध्ययनसूत्रार्थधारिणा साधुना कथयितव्यः, स हि संविग्नगीतार्थतया उत्सर्गा - ऽपवादपदानि स्वस्थाने स्वस्थाने विनियुञ्जानो न विपरीतप्ररूपणया आत्मानं परं वा दीर्घभवभ्रमणभाजनमातनोतीति ॥ ११३५ || ” इति क्षेमकीर्तिसूरिविरचितवृत्तिसहिते बृहत्कल्पभाष्ये पृ० ३५४ ॥
पृ० ५७ पं० ६ ।। " उपभोगपरिभोगव्रतम्, तच्चानेकरूपमेव, कुत इत्याह- आहारादि- विलया-द्विपादि अशन - ताम्बूल - स्त्री हस्तिप्रमुखं चित्रं यतो भणितम्” इति नवपदप्रकरणबृहद्वृत्तौ गा० ७५, पृ० १९५ ॥ " वनिताया विलया २।१२८ ।। वनिताशब्दस्य विलया इत्यादेशो वा भवति, विलया वणिआ। विलयेति संस्कृतेऽपीति केचित् ॥” इति स्वोपज्ञवृत्तिसहिते हैमे प्राकृतव्याकरणे ॥
For Private & Personal Use Only
विशिष्टानि टिप्पणानि
२२४
www.jainelibrary.org