________________
सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम्
२२३
पृ० ३६ पं० १-३॥ “जन्ममृत्युजराव्याधिरोगशोकाद्युपद्रुतम् । वीक्षमाणा अपि भवं नोद्विजन्तेऽतिमोहतः ॥७९॥ जन्म प्रादुर्भावलक्षणम्, मृत्युः प्राणत्यागस्वरूपः, जरा वयोहान्यात्मिका, व्याधिः कुष्ठादिलक्षणः, रोगो विशुचिकाद्यातङ्कः, शोक इष्टवियोगादिजो मनोविकारः, आदिशब्दाद् ग्रहादिपरिग्रहः, एभिरुपद्रुतं कदर्थितं वीक्षमाणा अपि पश्यन्तोऽपि सन्तः भवं संसारं नोद्विजन्तेऽस्मादिति प्रक्रमः, अतिमोहतो हेतोरिति ॥७९॥
___धर्मबीजं परं प्राप्य, मानुष्यं कर्मभूमिषु । न सत्कर्मकृषावस्य, प्रयतन्तेऽल्पमेधसः ॥८३॥ धर्मबीजं धर्मकारणं परं प्रधानं प्राप्याऽऽसाद्य, किं तदित्याह- मानुष्यं मानुषत्वं । क्वेत्याह-कर्मभूमिषु भरताद्यासु । किमित्याह-न सत्कर्मकृषौ विभिन धर्मबीजाधानादिरूपायाम् अस्य धर्मबीजस्य प्रयतन्तेऽल्पमेधसः अल्पमतय इत्यर्थः ।।८३॥
टिप्पणानि बडिशामिषवत्तुच्छे, कुसुखे दारुणोदये । सक्तास्त्यजन्ति सच्चेष्टां, धिगहो दारुणं तमः ॥८४।। बडिशामिषवदिति निदर्शनम्, मत्स्यगलमांसवत् तुच्छे अल्पे कुसुखे दुष्टभोगजे दारुणोदये रौद्रविपाके, समयपरिभाषेयम्, सक्ता गृद्धाः,किमित्याह- त्यजन्ति सच्चेष्टां धर्मसाधनम्, कर्मदोषोऽयमित्याह- धिगहो दारुणं तमः कष्टमज्ञानमिति योऽर्थः ॥८४॥” इति स्वोपज्ञवृत्तिसहिते योगदृष्टिसमुच्चये॥
पृ०४१ पं० १७ ॥ "तस्मान्न बध्यते नापि मुच्यते नापि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥६॥ पुरुषो न बध्यते, कस्मात् ? सर्वगतत्वादविकारित्वाद् निष्क्रियत्वात् अकर्तृत्वाच्च । यस्माच्च न बध्यते तस्माच्च न मुच्यते, मुक्त एव सः । अबद्ध: कुतो मुच्यते ? कस्य मुक्तेन विश्व(कस्याभुक्तेन विषूचिका) स्यात् । न च संसरति सर्वगतत्वात् । सर्वगतस्य बन्धमोक्षौ कुतः ? अप्राप्तप्रापणार्थं गमनमित्युपदिश्यते, तेन च पुरुषेण सर्वं प्राप्तम् । ये पुरुषं न विदन्ति त एवं वदन्ति-पुरुषो बद्धः पुरुषो मुक्तः पुरुषः संसरतीति । अत्राह-यदि पुरुषस्य न मोक्षः, संसारोऽपि कस्य तर्हि? तदुच्यते- संसरति बध्यते मुच्यते च नानाश्रया प्रकृति: । प्रकृतिरेवात्मानं बध्नाति मोक्ष(च)यति संसरतीति । यत् तत् सूक्ष्मशरीरं पूर्वमुक्तं तन्मात्रिकं त्रयोदशविधेन संयुक्तं त्रिविधेन बन्धेन बद्धं संसरति च प्रकृति नाश्रया देव-मानुष-तिर्यग्योनिशरीराणामाश्रयभूतेत्यर्थः । एवं यत् प्रधानं तत् सूक्ष्मशरीरं तत् प्रधानं प्रकृतिरित्यनर्थान्तरम् । तत्र यो ब्रूते 'पुरुषो मुक्तः पुरुषः संसरति' इति तद् मिथ्या” इति वृत्तिसहितायां सांख्यसप्ततौ ॥
। २२३
Jain Education International
....
ForPrivatePersonal use Only
www.jainelibrary.org