________________
सवृत्तिके धर्मबिन्दौ
चतुर्थ
परिशिष्टम्
२२२
Jain Education International
इति ॥ २२६ ॥
यः श्राद्धो मन्यते मान्यानहङ्कारविवर्जितः । गुणरागी महाभागस्तस्य धर्मक्रिया परा ॥ २२७ ॥
यः श्राद्धः सन्मार्गश्रद्धालुः मन्यते बहुमानविषयीकुरुते मान्यान् देवतादीन् अहङ्कारविवर्जितो मुक्ताभिमानः । अत एव गुणरागी गुणानुरागवान् महाभागः प्रशस्याचिन्त्यशक्तिः, किमित्याह- तस्य शास्त्रपरतन्त्रतया मान्यमन्तुः धर्मक्रिया उक्तरूपा परा प्रकृष्टेति ॥२२७|| यस्य त्वनादरः शास्त्रे, तस्य श्रद्धादयो गुणाः । उन्मत्तगुणतुल्यत्वान्न प्रशंसास्पदं सताम् ॥ २२८ ॥ यस्य त्वनादरोऽगौरवरूपः शास्त्रे, तस्य श्रद्धादयः श्रद्धा-संवेग-निर्वेदादयो गुणाः, किमित्याहतथाविधग्रहावेशात्सोन्मादपुरुषशौर्यौदार्यादिगुणसदृशत्वात्, न प्रशंसास्पदं न श्लाघास्थानं सतां विवेकिनामिति ॥२२८॥ मलिनस्य यथात्यन्तं जलं वस्त्रस्य शोधनम् । अन्तः करणरत्नस्य, तथा शास्त्रं विदुर्बुधाः ॥ २२९ ॥ मलिनस्य मलवत:, यथात्यन्तम् अतीव जलं पानीयम् वस्त्रस्य प्रतीतरूपस्य शोधनं शुद्धिहेतुः, अन्तःकरणरलस्य अन्तःकरणं मनः, तदेव रत्नम् तस्य चिन्तारत्नादिभ्योऽप्यतिशायिनः तथा शास्त्रं विदुर्जानते शोधनं बुधाः बुद्धिमन्तः || २२९||
उन्मत्तगुणतुल्यत्वात्
शास्त्रे भक्तिर्जगद्वन्द्यैर्मुक्तेर्दूती परोदिता । अत्रैवेयमतो न्याय्या, तत्प्राप्त्यासन्नभावतः || २३० ।।
शास्त्रे भक्तिरुक्तरूपा जगद्वन्द्यैर्जगत्त्रयपूजनीयैस्तीर्थकृद्भिः मुक्तेर्दूती अवशीभूतमुक्तियोषित्समागमविधायिनी परा प्रकृष्टा उदिता निरूपिता अत्रैव शास्त्र एव इयं भक्तिः अतो मुक्तिदूतीभावादेव हेतोः न्याय्या समता कुत इत्याह- तत्प्राप्त्यासन्नभावत: मुक्तिप्राप्तेरासन्नभावात् । न हि मुक्तिप्राप्तेरनासन्नः शास्त्रभक्तिमान्सम्पद्यते, अतः शास्त्र एवेयं न्याय्येति ॥ २३० ॥” इति वृत्तिसहिते योगबिन्दौ ||
पृ० ३३ पं० १० । “हिंसाऽनृतादयः पञ्च तत्त्वाश्रद्धानमेव च । क्रोधादयश्च चत्वार इति पापस्य हेतवः ॥४॥ हिंसा नृत- स्तेयाऽब्रह्म-परिग्रहाः, आदिशब्दादवरोधेऽप्यनृतग्रहणं प्राधान्यख्यापनार्थम्, तत्त्वाश्रद्धानमेव च मिथ्याभिनिवेश इति भाव:, क्रोधादयश्च चत्वारः क्रोधमानमायांलोभाः इति एवं त एवंप्रकारा वा पापस्य हेतवः, अशुभकर्म्मबन्धजनका इत्यर्थः ||४|| ” इति स्वोपज्ञवृत्तिसहिते शास्त्रवार्तासमुच्चये ॥
For Private & Personal Use Only
विशिष्टानि
टिप्पणानि
२२२
www.jainelibrary.org