SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम् २२१ विशिष्टानि टिप्पणानि परलोकविधौ परलोकफले प्रयोजने कर्तव्ये शास्त्रादुक्त्तनिरुक्तात् प्रायो बाहुल्येन न नैव अन्यल्लोकरूढ्यादि अपेक्षते आलम्बते । क इत्याह- आसन्नभव्यः दूरभव्यव्यवच्छेदार्थमेतत् मतिमान् मार्गानुसारी प्रज्ञः तथा श्रद्धाधनसमन्वितः श्रद्धानुष्ठानाभिलाषरूपधनसमन्वितः ॥२२१।। ____ उपदेशं विनाप्यर्थकामौ प्रति पटुर्जनः । धर्मस्तु न विना शास्त्रादिति तत्रादरो हितः ॥२२२॥ उपदेशं शास्त्रप्रज्ञापनम् विनाप्यन्तरेणापि, किं पुनरितरथेत्यपिशब्दार्थ: अर्थकामौ प्रतीतरूपावेव प्रतीत्याश्रित्य पटुर्जनः, लोकरूढिप्रामाण्यादपि तत्सिद्धिसम्भवात् । धर्मस्तु धर्मः पुनरुक्तनिरुक्त: न विना शास्त्रात् इत्यस्माद्धेतो: तत्र शास्त्रे आदरो यत्नः कल्याणरूपः सम्पद्यते इति ॥२२२।। ___ अर्थादावविधानेऽपि, तदभावः परं नृणाम् । धर्मेऽविधानतोऽनर्थ:, क्रियोदाहरणात्परः ॥२२३।। अर्थादावर्थकामलक्षणविषये अविधानेऽप्यविधावपि क्रियमाणे 'विधौ तावत्सर्वानर्थाभावः' इत्यपिशब्दार्थः तदभावोऽर्थाद्यभाव परं केवलम्, नान्यः कश्चिदनर्थः नृणां पुंसां सम्पद्यत इति । धर्मे धर्मविषये अविधानतोऽविधानात् अनर्थोऽकल्याणम् क्रियोदाहरणाच्चिकित्सादृष्टान्तात् परः प्रकृष्टः । यथोक्तम्- पडिवज्जिऊण किरियं तीए विरुद्धं निसेवइ जो उ । अपवत्तगाउ अहियं, सिग्धं च संपावइ विणासं ॥[ ] ॥२२३।। ___ तस्मात्सदैव धर्मार्थी, शास्त्रयल: प्रशस्यते । लोके मोहान्धकारेऽस्मिन् शास्त्रालोकः प्रवर्तकः ॥२२४॥ तस्माद्धर्मेऽविधानत: परानर्थभावात् सदैव सर्वकालमेव धर्मार्थी धर्माभिलाषुकः शास्त्रयल: शास्त्रादरपर: प्रशस्यते श्लाघ्यते । कुतः ? यत: लोके जगति मोह एवान्धकारस्तमो यत्र स तथा तत्र, शास्त्रालोकः शास्त्रप्रकाणः, प्रवर्तकः प्रवर्तयिता परलोकक्रियासु ॥२२४।। पापामयौषधं शास्त्रं शास्त्रं पुण्यनिबन्धनम् । चक्षुः सर्वत्रगं शास्त्र शास्त्रं सर्वार्थसाधनम् ॥२२५।। पापामयौषधं पापव्याधिशमनीयं शास्त्रम् । तथा शास्त्रं पुण्यनिबन्धनं पवित्रकृत्यनिमित्तम् । चक्षुर्लोचनं सर्वत्रगं सूक्ष्मबादरादावर्थे गच्छति यत्तत्सर्वत्रगं शास्त्रम्, शास्त्रं सर्वार्थसाधनं सर्वप्रयोजननिष्पत्तिहेतुः ।।२२५॥ न यस्य भक्तिरेतस्मिंस्तस्य धर्मक्रियापि हि । अन्धप्रेक्षाक्रियातुल्या, कर्मदोषादसत्फला ॥२२६।। - न यस्य धर्मार्थिन: भक्ति: बहुमानरूपा एतस्मिन् शास्त्रे, तस्य धर्मक्रियापि हि देववन्दनादिरूपा, किं पुनरन्यरूपेत्यपिहिशब्दार्थ: अन्धप्रेक्षाक्रियातुल्या अन्धस्यावलोकनकृते या प्रेक्षणकक्रिया तत्तुल्या कर्मदोषात् तथाविधमोहोदयात् असत्फला अविद्यमानाभिप्रेतार्था सम्पद्यत तणनिबन्धनम् । चना प्रकाणः, प्रवर्तकः प्रवाशास्त्रादरपरः प्रशस्यते । २२१ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy