SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबन्दी चतर्थं परिशिष्टम् २२० Jain Education International प्रशंसादि वर्णवाद-कुशलचित्त उचितकृत्यकरणलक्षणम्, तद्व्रतम् धर्मगतम् । तच्चिन्तादि, तस्य धर्मस्य चिन्ता अभिलाषः, आदिशब्दात् सच्छ्रुत्यादि वक्ष्यमाणम्, अङ्करादि अङ्कुर - सत्काण्डादि वक्ष्यमाणमेव । फलसिद्धिस्तु निर्वृतिरिति प्रतीतार्थम् । चिन्ता इत्यादिश्लोको भावितार्थ एव ।" इति मुनिचन्द्रसूरिविरचितायां ललितविस्तरापञ्जिकायाम् ॥ पृ०२७ पं० ३ ॥ " पञ्चैतानि पवित्राणि सर्वेषां धर्मचारिणाम् । अहिंसा सत्यमस्तेयं त्यागो मैथुनवर्जनम् || १३|२|| पञ्च इति सङ्ख्या, एतानि वक्ष्यमाणानि पवित्राणि पावनानि सर्वसम्मतत्वादेषाम्, सर्वेषां समस्तानां जैनसाङ्ख्यबौद्धवैशेषिकादीनां, धर्मचारिणाम्, कानि तानीत्याह- अहिंसा प्राणिवधविरतिः, सत्यम् ऋतम्, अस्तेयम् अचौर्यम्, त्यागः सर्वसङ्गत्यर्जनम्, मैथुनवर्जनम् अब्रह्मविरतिरिति । सर्वसम्मतत्वं चैषामेवम् | जैनैस्तावदेतानि महाव्रतान्यभिधीयन्ते । साङ्ख्यैर्व्यासमतानुसारिभिश्च यमाः, यतस्ते आहुः - पञ्च यमाः, पञ्च नियमाः । तत्र यमा:- अहिंसा सत्यमस्तेयं ब्रह्मचर्यमव्यवहारश्चेति ॥ नियमास्तु अक्रोधो गुरुशुश्रूषा शौचमाहारलाघवम् अप्रमादश्चेति || पाशुपतैस्तु धर्मशब्देनोक्तानि, यतस्ते दश धर्मानाहुः तद्यथा - अहिंसा सत्यवचनमस्तैन्यं चाप्यकल्पना || ब्रह्मचर्यं तथाऽक्रोधो ह्यार्जवं शौचमेव च || संतोषो गुरुशुश्रूषा इत्येते दश कीर्तिताः ॥१॥ भागवतैस्तु व्रतशब्देनोच्यन्ते, यदाहुस्ते- “पञ्च व्रतानि पञ्चोपव्रतानि, तत्र व्रतानि यमाः, उपव्रतानि तु नियमाः " ॥ बौद्धैः पुनरेतानि कुशलधर्मा उक्ताः, यदाहस्ते- दश कुशलानि, तद्यथा “हिंसास्तेयान्यथाकामपैशुन्यं परुषानृतम् । सम्भिन्नालापव्यापादमभिध्यां दृग्विपर्ययम् ॥ पापं कर्मेति दशधा कायवाङ्मानसैस्त्यजेत् ” ॥१॥" अत्र चान्यथाकामः पारदार्यम्, सम्भिन्नालापोऽसम्बद्धभाषणम्, व्यापादः परपीडाचिन्तम्, अभिध्या धनादिष्वसन्तोषः परिग्रह इति तात्पर्यम्, दृग्विपर्ययो मिथ्याभिनिवेशः, एतद्विपर्ययाश्च दश कुशलधर्मा भवन्तीति ॥ वैदिकैस्तु ब्रह्मशब्देनैतान्यभिहितानीति ॥२॥” इति जिनेश्वरसूरिविरचितटीकासहिते हरिभद्रसूरिविरचिते त्रयोदशे अष्टके || पृ० २७ पं० १० । “स खलु पिशाचकी वातकी वा यः परेऽनर्थिनि वाचमुदीरयति ||१०|१५९|| परे जनेऽनर्धिनि अश्रोतुकामे य उदीरयति वदति, काम् ? वाचं वाणीम्, स किंविशिष्टो जनैर्मन्यते ? खलु पिशाचकी संजातभूतग्रहः वातकी वा सन्निपातयुक्तो वा । तस्मादश्रोतुः पुरतो विदुषा न वक्तव्यम् ।” इति सटीके नीतिवाक्यामृते दशमे मन्त्रिसमुद्देशे ॥ पृ० २८ पं० १-११ ॥ “परलोकविधौ शास्त्रात्, प्रायो नान्यदपेक्षते । आसन्नभव्यो मतिमान्, श्रद्धाधनसमन्वितः ॥ २२९ ॥ For Private & Personal Use Only विशिष्टानि टिप्पणानि २२० www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy