________________
सवृत्तिके धर्मबिन्दौ
चतुर्थं
परिशिष्टम्
२१९
Jain Education International
.......... न तस्य धनं धर्मः शरीरं वा यस्यास्ति स्त्रीष्वत्यासक्तिः ||१२||
यस्य पुरुषस्य स्त्रीविषयेऽत्यासक्तिर्भवति तस्य तावद्धनं न भवति तस्यामासक्तेर्व्यवसायं न करोति तेन विना दरिद्रता भवति । ...... विरुद्धकाम[प्र-तालपत्रे]वृत्तिः समृद्धोऽपि न चिरं नन्दति ॥ १३॥ यः पुमान् विरुद्धवृत्तिः स समृद्धोऽपि लक्ष्मीवानपि चिरकालं न नन्दति, न पुनर्लक्ष्मीवान् भवति । विरुद्धकामशब्देन परदारसेवा कथ्यते तया यो वर्तत इति । ......
धर्मार्थकामानां युगपत्समवाये पूर्वपूर्वी गरीयान् ॥१४॥ धर्मार्थकामानामेतेषां त्रयाणां य: पूर्व : प्रथमः स गरीयान् गुरुतरः । एतदुक्तं भवतिअर्थाद्धर्मः प्रथमं प्रोक्तः स तस्मात् प्रधानतरः, तस्मात् क्रमेण ते सेव्यास्त्रयोऽपि गृहस्थेन । कथं सत्रिभागं प्रहरं यावत् धर्मचिन्ता कर्तव्या, ततः सत्रिभागं प्रहरं यावदर्थचिन्ता, ततः कामचिन्ता ।” इति नीतिवाक्यामृते तृतीये कामसमुद्देशे ॥
पृ० २३ पं० ५ । “शुश्रूषा-श्रवण- ग्रहण -धारणा-विज्ञानोहापोह - तत्त्वाभिनिवेशा बुद्धिगुणाः || ४४|| श्रोतुमिच्छा शुश्रूषा ||४५ ॥ श्रवण ॥४६॥ ग्रहणं शास्त्रार्थोपादानम् ||४७|| धारणमविस्मरणम् ॥४८॥ मोह-सन्देह विपर्यासव्युदासेन ज्ञानं विज्ञानम् ॥ ४९ ॥ विज्ञातमर्थमवलम्ब्यान्येषु व्याप्त्या तथाविध वितर्कणमूहः ॥५०॥ उक्तियुक्तिभ्यां विरुद्धादर्थात् प्रत्यवायसंभावनया व्यावर्तनमपोहः ॥ ५१ ॥ अथवा सामान्यज्ञानमूहो विशेषज्ञानमपोहः ॥ ५२॥ विज्ञानोहापोहानुगमविशुद्धमिदमित्थमेवेति निश्चयस्तत्त्वाभिनिवेशः || ५३||” इति नीतिवाक्यामृते पञ्चमे विद्यावृद्धसमुद्देशे ॥
पृ० २५ पं० ५॥ “दुःखितेषु दयात्यन्तमद्वेषो गुणवत्सु च । औचित्यात्से (त्यासे) वनं चैव, सर्वत्रैवाविशेषतः ||३२|| दुःखितेषु शारीरादिना दुःखेन, दयात्यन्तं सानुबन्धेत्यर्थः, अद्वेषोऽमत्सरः, केष्वित्याह- गुणवत्सु च विद्यादिगुणयुक्तेषु, औचित्यात्से (त्यासे) वनं चैव शास्त्रानुसारेण, सर्वत्रैव दीनादौ, अविशेषतः सामान्येन ॥३२॥” इति स्वोपज्ञवृत्तिसहिते योगदृष्टिसमुच्चये ॥”
पृ० २५ पं० ८ ॥ “उक्तं च- विधिनोप्ताद् यथा बीजादङ्कराद्युदयः क्रमात् । फलसिद्धिस्तथा धर्मबीजादपि विदुर्बुधाः ||१|| वपनं धर्मबीजस्य ....... ॥२॥ चिन्ता - सच्छ्रुत्यनुष्ठानं देवमानुषसम्पदः । ॥३॥” इति चैत्यवन्दनसूत्रवृत्तौ ललितविस्तरायाम्। “वपनमित्यादि श्लोकः । वपनं निक्षेपणं धर्मस्य श्रुत चारित्ररूपस्य बीजं फलनिष्पत्तिहेतुः धर्मबीजम्, तस्य, 'आत्मक्षेत्रे' इति गम्यम् । किं तदित्याह - सत्प्रशंसादि । सत् संशुद्धम्, तच्चेत्थंलक्षणम्- 'उपादेयधियात्यन्तं संज्ञाविष्कम्भणान्वितम् । फलाभिसन्धिरहितं संशुद्धं ह्येतदीदृशम् ||' [ योगदृष्टिसमुच्चये २५],
For Private & Personal Use Only
विशिष्टानि
टिप्पणानि
२१९
www.jainelibrary.org