________________
सवृत्तिके धर्मबिन्दौ
चतुर्थं
परिशिष्टम्
२१८
Jain Education International
11311
ददातीत्यर्थः । स धनी तादात्विक उच्यते । तथा व शुक्रः - आगमे यस्य चत्वारो निर्गमे सार्धपञ्चमः । तस्यार्थाः प्रक्षयं यान्ति सुप्रभूतोऽपि चेत्स्थितः अथ मूलहरलक्षणमाह- यः पितृपैत (मह (होपात्त - तालपत्रे ) मर्थमन्यायेन भक्षयति स मूलहरः ॥८॥ यः पुनर्धनी पितृपैतामहमर्थमन्य द्यूतवेश्यादिना व्ययति नान्यदुपार्जयति स मूलहरः प्रोच्यते । तथा च गुरुः पितृपैतामहं वित्तं व्यसनैर्यस्तु भक्षयेत् । अन्यन्नोपार्जयेत् किंचित् स दरिद्रो भवेद् ध्रुवम् ॥ १॥
-
अथ कदर्यलक्षणमाह- यो भृत्यात्मपीडाभ्यामर्थं संचिनोति स कदर्यः || ९ || यः पुनर्भृत्यानात्मानं च पीडयति, विभवे विद्यमानेऽपि भृत्येभ्यो न प्रयच्छति, न च स्वयं भक्षयति स कदर्यः । स च त्रयाणामप्यधमः । तस्य द्रव्यं राजा तस्करा वा हरन्ति । तथा च हारीत:
अथ तादात्विक मूलहरयोर्यद्भवति तदाह- तादात्विकमूलहरयोरायत्यां नास्ति कल्याणम् ॥१०॥ आयतिशब्देन परिणाम उच्यते। तस्यामायत्यां परिणामे कल्याणं शुभं न भवति । कयोः ? तादात्त्रिक मूलहरयोः । एतदुक्तं भवति, यन्मूलहर: पितृपैतामहमर्थमन्यायेन भक्षयति यच्च तादात्विकोऽनुचितं व्ययं करोति तत्तयोरपि द्वयोर्दरिद्रता भवति, द्वौ दौःस्थ्यं व्रजतः । तथा च कपिपुत्रः - आगमाभ्यधिकं कुर्याद्यो व्ययं यश्च भक्षति । पूर्वजोपार्जितं नान्यदर्जयेच्च स सीदति ॥ १ ॥
अथ कदर्यस्य यद्भवति तदाह- कदर्यस्यार्थसंग्रहो राजदायादतस्कराणामन्यतमस्य निधिः ॥ ११ ॥ कदर्यस्य तु पुनर्यो धनसंचयः स किंविशिष्टः ? निधिः । केषाम् ? राजदायादतस्कराणामन्यन्यतमस्य एकस्य । एतदुक्तं भवति - भूपेन गोत्रजेन तस्करेण वाहियते इति । तथा च वल्लभदेवःदानं भोगो नाशस्तिस्त्रो गतयो भवन्ति वित्तस्य । यो न ददाति न भुंक्ते तस्य तृतीया गतिर्भवति ॥ १ ॥ तथा च शुक्रः- शेषो धारयते पृथ्वीं सन्निधानां सदोष्मणां । कृपणैर्निहितानि च तस्य शक्तिर्न चान्यथा || १||" इति नीतिवाक्यामृते द्वितीयेऽर्थसमुद्देशे ॥
पृ० २१ पं० ६ । “नाजितेन्द्रियस्य कापि कार्यसिद्धिरस्ति ||७|| अजितेन्द्रियाणां पुरुषाणां कापि स्वल्पापि कार्यसिद्धिर्न विद्यते । कथम् ? यो गीतलालसो भवति स गीतं शृण्वन् स्वकृत्येषु विलम्बं करोति, विलम्बे कृते कार्यनिष्फलता स्यात् । ........ न कामासक्तस्यास्ति किञ्चित् चिकित्सितम् ।।११।। नास्ति न विद्यते । किं तत्, चिकित्सितं शुभकर्मोपदेशः । कस्य ? कामासक्तस्य पुरुषस्य । कोऽर्थः ? न किंचिद्धितं शृण
For Private & Personal Use Only
विशिष्टानि टिप्पणानि
२१८
www.jainelibrary.org