________________
सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम्
२१७
विशिष्टानि टिप्पणानि
॥शा[
__ अथ धर्मातिक्रमेण यद् भवति तदाह - धर्मातिक्रमाद् धनं परेऽनुभवन्ति, स्वयं तु परं पापस्य भाजनं सिंह इव सिन्धुरवधात् ॥४२॥ धर्मातिक्रमेण चौर्यादिभिरकृत्यैर्यद् धनं प्राप्यते तदपरे पुत्र-कलत्रादयो भक्षयन्ति, उपार्जकस्तु केवलम् उत्कृष्ट पापस्य भाजनं पापस्थानं भवति । क इव ? सिंहवत्, यथा सिंह: सिन्धुरं गजं हत्वा अन्येषां शृगालादीनां भोज्यं करोति केवलं स्वयं पापवान् भवति तथा पुरुषोऽपि । तथा च विदुर: - एकाकी कुरुते पापं फलं भुङ्क्ते महाजनः । भोक्तारो विप्रमुच्यन्ते कर्ता दोषेण लिप्यते ॥१॥[
अथाधार्मिकस्य यद् भवति तदाह - बीजभोजिनः कुटुम्बिन इव नास्त्यधार्मिकस्यायत्यां किमपि शुभम् ॥४३।। अत्रायतिशब्देन परिणाम उच्यते, तस्मिन् परिणामे पुरुषस्य न किञ्चिच्छुभं भवति । किंविशिष्टस्य पुरुषस्य ? अधार्मिकस्य । कस्येव ? कुटुम्बिन इव कर्षकस्येव । किंविशिष्टस्य ? बीजभोजिनो वप्तुं योग्यस्य भक्षकस्य न किञ्चिदन्नं भवति आयत्यां शरदि वसन्ते वा । तथा च भागुरि: - पापासक्तस्य नो सौख्यं परलोके प्रजायते । बीजाशिहालिकस्येव वसन्ते शरदि स्थिते ॥१॥ [
] .................... अथ कामार्थत्यागेन केवलं धर्माश्रितस्य यद् भवति तदाह - यः कामार्थावुपहत्य धर्ममेवोपास्ते स पक्वं क्षेत्रं परित्यज्यारण्यं कृषति ॥४४॥ ........
स खलु सुखी (सुधी: - टीका) योऽमुत्रसुखाविरोधेन सुखमनुभवति ॥४५॥ स पुरुषः खलु निश्चयेन सुधी: सुमतिर्विज्ञेयः, य: किं करोति ? योऽनुभवति सेवते, किं तत् ? सुखम्, केन कृत्वा ? अमुत्रसुखाविरोधेन, अमुत्रशब्देन परलोकोऽभिधीयते, तस्य येन सुखेनानुभूतेन विरोधो न भवति तथा तदनुभवितव्यम् । यत् पुन: परदारचौर्यादिकं तेन परलोके विरोध: स्यात्, नरकपातो भवतीत्यर्थः ।" इति सटीके नीतिवाक्यामृते प्रथमे धर्मसमुद्देशे ॥
पृ० २१ पं० ३ । “तादात्विक-मूलहर-कदर्येषु नासुलभः प्रत्यवायः ॥६॥ एतेषां तादात्विक-मूलहर-कदर्याणां संज्ञा आगामिकसूत्रेषु वदिष्यति । किं बहुना ? एतेषां धनिनां प्रत्यवायोऽर्थनाश: सदैव भवतीति । तथा च शुक्र:- अचिन्ति(असञ्चि)तार्थमश्नाति योऽन्योपार्जितभक्षक: । कृपणश्च त्रयोऽप्येते प्रत्यवायस्य मन्दिरम् ॥ [
]। अथ तादात्विकलक्षणमाह- य: किमप्यसंचित्योत्पन्नमर्थमपव्येति स तादात्विकः ॥७॥ य उपार्जनां कृत्वा अनुरितं व्ययति, कोऽर्थः ? असद्व्ययं करोति, न जानाति ममैतत्प्रयोजनमर्थेन भविष्यति । आगतेरप्यधिक
२१७
Jain Education International
For Private & Personal use only
www.jainelibrary.org