SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम् पृ० २० पं० १३ ॥ “उपदेश: शुभो नित्यं दर्शनं धर्मचारिणाम् । स्थाने विनय इत्येतत् साधुसेवाफलं महत् ॥७॥ उपदेशःशुभः कुशलसाधको नित्यं तथा दर्शनं धर्मचारिणां पवित्रसाधूनामेव, तथा स्थाने विनय इति तद्वन्दनादिनेति, एतत् एवंभूतं साधुसेवाफलं महत् धर्माङ्गसाधनमिति ॥७॥” इति शास्त्रवार्तासमुच्चये स्वोपज्ञवृत्तिसहिते ।। पृ० २० पं० १५ । तुलना - “अथ धर्मार्थकामफलाय राज्याय नमः । यतोऽभ्युदय-निःश्रेयससिद्धिः स धर्मः ॥१॥ अभ्युदयशब्देनात्र स्वर्ग: प्रोच्यते, यतो यस्मात् स्वर्गप्राप्तिर्भवति तथा निःश्रेयसस्य मोक्षस्य सिद्धिर्भवति स धर्मः । न पुनर्य: कौलनास्तिकैरुक्तः स्त्रीसेवा-मद्यपानादिलक्षण: ।" इति नीतिवाक्यामृते प्रथमे धर्मसमुद्देशे। _ “यत: सर्वप्रयोजनसिद्धिः सोऽर्थः ॥१॥ कथ्यते, नान्यो य: कृपणैर्गर्तेषु स्थापितस्तिष्ठति ॥” इति नीतिवाक्यामृते द्वितीयेऽर्थसमुद्देशे टीकासहिते २१६ “य. विशिष्टानि टिप्पणानि "आभिमानिकरसानुविद्धा यत: सर्वेन्द्रियप्रीतिः स कामः ॥१॥ कामशब्देन स्त्रियामभिलाष: कथ्यते । यतो यस्मादभिलाषात् सर्वेन्द्रियप्रीतिः जायते स कामः, न केवलं रतिलक्षण: । किंविशिष्टा सर्वेन्द्रियप्रीति: ? आभिमानिकरसानुविधा । आभिमानिकरसशब्देन निरर्गलता प्रोच्यते, तयानुविद्धा याऽसौ स्नेहलक्षणसर्वेन्द्रियप्रीति: कामाभिलाषो भवति, तदाह - यस्याः नायिकाया: कलशब्दं श्रुत्वा कर्णाभ्यां निरर्गला प्रीतिर्जायते, तस्याः सुकोमलाङ्गस्पर्शेन च निरर्गला प्रीतिर्भवति । तथा यस्या रूपावलोकनेन नेत्रयोनिरर्गला प्रीतिः । तथा यस्याः परिमलाढ्यानस्याऽऽघ्राणात् घ्राणस्य निरर्गला प्रीतिः । तथा तस्या अधरपानात् जिह्वाया अमृतपानादिव निरर्गला प्रीतिर्भवति स काम: पञ्चप्रकारेण नैकेनापि हीयते । तथा च राजपुत्र: - सर्वेन्द्रियानुराग: स्यात् यस्याः संसेवनेन च । स च कामः परिज्ञेयो यत्तदन्यद्विचेष्टितम् ॥१॥” इति सटीके नीतिवाक्यामृते तृतीये कामसमुद्देशे २१६ पृ० २० पं०१७ - पृ० २१ पं०३ । “वनगज इव तादात्विक तदात्व-तालपत्रे]सुखलब्ध: को नाम न भवत्यास्पदमापदाम् ॥४१॥ अत्र तदात्वसुखशब्देन परस्त्रीस्पर्शः तात्कालिकसुखमभिधीयते । तत्र यो लुब्धः पुरुषः को नाम अहो कासामापदां व्यसनलक्षणानां नास्पदं स्थानं भवति ? क इव ? वनगज इव अरण्यहस्तीव, यथा वनहस्ती दृष्ट्वा कामैरानीतां वनकरेणुकां स्पर्शमात्रं सुखमनुभवन् बन्धनमाप्नोति तद्वत् पुरुषोऽपि यस्मात् परस्त्रीस्पर्शमात्रं सुखं लभते । तथा च नारदः - करिणीस्पर्शसौख्येन प्रमत्ता वनहस्तिनः । बन्धमायान्ति तस्माच्च तदात्वं वर्जयेत् सुखम् Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy