________________
सवृत्तिके धर्मबिन्दौ
चतुर्थं परिशिष्टम्
२१५
Jain Education International
विरुद्धमपरीक्षितमसाधुपाकमतीतरसमकालं चान्नं नानुभवेत् ||३९|| ..... । तथा भुञ्जीत यथा सायमन्येद्युश्च न विपद्यते वह्निः ॥४०॥ न भुक्तिपरिमाणे सिद्धान्तोऽस्ति ||४१|| वह्न्यभिलाषायत्तं हि भोजनम् ॥४२॥ अतिमात्रभोजी देहमग्निं च विधुरयति ||४३|| दीप्तो वह्निर्लघुभोजनानद् बलं क्षपयति ||४४|| अत्यशितुर्दुखेनान्नपरिणामः || ४५ ॥ श्रमार्तस्य पानं भोजनं च ज्वराय छर्दिषे वा ॥ ४६ ॥ न जिहत्सुर्न प्रस्रोतुमिच्छुर्नासमञ्जसमना नानपनीय पिपासोद्रेकमश्नीयात् ||४७|| भुक्त्वा व्यायाम-व्यवायौ सद्यो विपत्तिकारणम् ||४८|| आजन्म सात्म्येन विषमपि पथ्यम् ||४९|| असात्म्यमपि पथ्यं सेवेत, न पुनः सात्म्यमप्य (प्य - तालपत्रे नास्ति ) पथ्यम् ॥५०॥ सर्वं बलवतः पथ्यमिति मत्वा न कालकूटं खादेत् ॥५१॥ सुशिक्षितोऽपि विषतन्त्रज्ञो म्रियत एव कदाचिद् विषात् ॥५२॥” इति नीतिवाक्यामृते सप्तविंशे दिवसानुष्ठानसमुद्देशे ॥
पृ० १८ पं० २० । तुलना - "सात्म्यं च सुखिभावसाधनलक्षणम् । यथोक्तम् - पानाहारादयो यस्य विरुद्धाः प्रकृतेरपि । सुखित्त्वायावकल्पन्ते तत् सात्म्यमिति गद्यते ॥” [ ] इति अनेकान्तजयपताकास्वोपज्ञवृतौ पृ० ७ ।
“सात्म्यं च सुखिभावसाधनलक्षणमिति । समानः सदृश उचितत्वेन आत्मा यस्य स सात्मा, तस्य भावः सात्म्यम्, चकारः समुच्चये, सुखिभावसाधनलक्षणम्, सुखिभावस्य सुखित्वस्य साधनं निमित्तं तदेव लक्षणं यस्य तत् तथा । इदमुक्तं भवति - कर्तुमिष्टेन आसेवितुमिष्टेन वा यदाऽऽत्मनो योग्यत्वेन समानता सम्पन्ना भवति तदा तत् सात्म्यमुच्यते । तस्मिंश्च सति प्रकृतिविरुद्धस्नान-पाना - SSहार-विहारादिक्रियाकलापोपनिपातेऽपि सति जन्तोः सुखित्वमेवोत्पद्यत इति । ” इति अनेकान्तजयपताकाया मुनिचन्द्रसूरिविरचिते विवरणे पृ० ७ ॥
पृ० १९ पं० २ ॥ तुलना- " आमं विदग्धं विष्टब्धं कफ-पित्ता - ऽनिलैस्त्रिभिः । अजीर्णं केचिदिच्छन्ति चतुर्थं रसशेषतः ॥४९९||" इति सुश्रुतसंहितायां प्रथमे सूत्रस्थाने ४६ तमेऽध्याये ॥
पृ० १९ पं० ६ ॥ “मूर्च्छा चेतनाच्युतिः, प्रलापः असंबद्धभाषणम्, वमथुः छर्दिः, सदनम् अङ्गग्लानि:, अन्ये तु स्फुटनमिवाङ्गानाम्' इति वदन्ति, भ्रमः चक्रारूढस्येव" इति डल्हनविरचितायां सुश्रुतसंहिताटीकायाम् ||
वस्तुना
For Private & Personal Use Only
| विशिष्टानि
टिप्पणानि
२१५
www.jainelibrary.org