SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम् २१४ शास्त्रोत्कर्षयोरीश्वरसत्त्वे वर्तमानयोरनादिः सम्बन्धः । एतस्मादेतद्भवति सदैवेश्वरः सदैव मुक्त इति । तच्च तस्यैश्वर्य साम्यातिशयविनिर्मुक्तम्, न तावदैश्वर्यान्तरेण तदतिशय्यते । यदेवातिशयि स्यात्तदेव तत्स्यात् । तस्माद्यत्र काष्ठाप्राप्तिरैश्वर्यस्य स ईश्वरः । न च तत्समानमैश्वर्यमस्ति । कस्मात् ? द्वयोस्तुल्ययोरेकस्मिन्युगपत्कामितेऽर्थे नवमिदमस्तु पुराणमिदमस्त्वित्येकस्य सिद्धावितरस्य प्राकाम्यविधातादूनत्वं प्रसक्तम् । द्वयोश्च तुल्ययोर्युगपत्कामितार्थप्राप्ति स्ति, अर्थस्य विरुद्धत्वात् । तस्माद्यस्य साम्यातिशयैर्विनिर्मुक्तमैश्वर्यं स एवेश्वरः स पुरुषविशेष इति ॥२४॥ ___किञ्च - तत्र निरतिशयं सर्वज्ञबीजम् ॥२५| यदिदमतीतानागप्रत्युत्पन्नप्रत्येकसमुच्चयातीन्द्रियग्रहणमल्पं बह्निति सर्वज्ञबीजमेतद्धि वर्धमानं यत्र निरतिशयं स सर्वज्ञः । स च पुरुषविशेष इति। सामान्यमात्रोपसंहारे च कृतोपक्षयमनुमानं न विशेषप्रतिपत्तौ समर्थम्, इति तस्य संज्ञादिविशेषप्रतिपत्तिरागमतः विशिष्यानि पर्यन्वेष्या । तस्यात्मानुग्रहाभावेऽपि भूतानुग्रहः प्रयोजनम्, ज्ञानधर्मोपदेशेन कल्पप्रलयमहाप्रलयेषु संसारिणः पुरुषानुद्धरिष्यामीति । तथा टिप्पणानि चोक्तम्-आदिविद्वान्निर्माणचित्तमधिष्ठाय कारुण्याद्भगवान्परमर्षिरासुरये जिज्ञासमानाय तन्त्रं प्रोवाचेति ॥२५॥ स एष: पूर्वेषामपि गुरु: कालेनानवच्छेदात् ॥२६॥ पूर्वे हि गुरवः कालेनावच्छिद्यन्ते । यत्रावच्छेदार्थेन कालो नोपावर्तते स एष पूर्वेषामपि गुरुः । यथास्य सर्गस्यादौ प्रकर्षगत्या सिद्धस्तथातिक्रान्तसर्गादिष्वपि प्रत्येतव्यः ॥२६॥” इति व्यासभाष्यसहिते पातञ्जलयोगदर्शने ॥ पृ० १७ पं० ९ ॥ “ईश्वरप्रणिधानाद्वा ।१।२३। क्लेश-कर्म-विपाका-ऽऽशयैरपरामृष्टः पुरुषविशेष ईश्वरः ।१।२४॥ तत्र निरतिशयं सर्वज्ञबीजम् ।१।२५। स एष पूर्वेषामपि गुरु: कालेनाऽनवच्छेदात् ।१।२६। तस्य वाचकः प्रणवः।१।२७। तज्जपस्तदर्थभावनम् ।१।२८।" इति पातञ्जलयोगदर्शने पृ० १८ पं०६ ॥ तुलना- “सात्म्यानि तु देश-काल-जात्युतु-रोग-व्यायामोदक-दिवास्वप्नरसप्रभृतीनि प्रकृतिविरुद्धान्यपि यान्यबाधकराणि भवन्ति ॥३९॥ यो रस: कल्पते यस्य सुखायैव निषेवितः । व्यायामजातमन्यद्वा तत् सात्म्यमिति निर्दिशेत् ॥४०॥” इति सुश्रुतसंहितायां प्रथमे सूत्रस्थाने ३५ तमेऽध्याये ।“ सात्म्यं नाम तद् यदात्मन्युपशेते, सात्म्यार्थो ह्युपशयार्थः" इति चरकसंहितायां तृतीये विमानस्थाने प्रथमेऽध्याये ॥ पृ० १८ पं०७-१४ । तुलना - "बुभुक्षाकालो भोजनकालः ॥२९॥ अक्षुधितेन अमृतमप्युपभुक्तं भवति विषम् ।।३०।। जठराग्निं वज्राग्निं कुर्वन् भोजनादौ सदैव वज्रकं कवलयेत् ॥३१।। निरन्नस्य सर्वं द्रवद्रव्यमग्निं नाशयति ॥३२॥ ..... सकृद् भूरिनीरोपयोगो वह्निमवसादयति ॥३५॥ क्षुत्कालातिक्रमादन्नद्देषो देहसादश्च भवति ॥३६॥ विध्याते वह्नौ किं नामेन्धनं कुर्यात् ॥३७॥ यो मितं भुङ्क्ते स बहु भुङ्क्ते ॥३८॥ अमितमसुखं २१४ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy