SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम् २१३ कथंचित्साक्षादसौ प्रणन्तुं न पार्यते तदा किं कृत्यमित्याह-तस्य गुरुवर्गस्य अनवसरेऽपि तथाविधप्रघट्टकवशात्, किं पुनरवसरे इत्यपिशब्दार्थः, उच्चैः | अत्यर्थः, चेतसि मनसि आरोपितस्य तु पूर्ववद् गुरुवर्गस्य पूजनमिति ॥१११।। अभ्युत्थानादियोगश्च, तदन्ते निभृतासनम् । नामग्रहश्च नाऽस्थाने, नावर्णश्रवणं क्वचित् ॥११२।। ____अभ्युत्थानादियोगोऽभ्युत्थाना-ऽऽसनप्रदान-स्थितपर्युपासनादिविनयव्यापाररूपः, च: समुच्चये, तदन्ते गुरुवर्गान्ते निभृतासनम् अप्रगल्भतयावस्थानम्, नामग्रहश्च नामोच्चारणरूप: न नैव अस्थाने मूत्रपुरीषोत्सर्गादिस्थानरूपे । न नैव अवर्णश्रवणम् अवर्णवादाकर्णनम् क्वचित् परपक्षमध्यावस्थानेऽपीति ॥११२।।" इति वृत्तिसहिते योगबिन्दौ॥ विशिष्टानि पृ० १६ पं०३ । तुलना - "त्रीण्यवश्यं भर्तव्यानि - माता, कलत्रम्, अप्राप्तव्यवहाराणि चापत्यानि ॥२॥ अवश्यं निश्चयेन त्रीण्येतानि टिप्पणानि वक्ष्यमाणानि भर्तव्यानि पोषणीयानि एका तावन्माता, द्वितीयं कलत्रम्, तृतीयमपत्यानि, किंविशिष्टानि ? आप्राप्तव्यवहाराणि, यानि व्यवहारं कर्तुं न जानन्ति । तथा च गुरु: - मातरं च कलत्रं च गर्भरूपाणि यानि च । अप्राप्तव्यवहाराणि सदा पुष्टिं नयेद् बुधः ॥१॥ इति नीतिवाक्यामृते सप्तविंशे व्यवहारसमुद्देशे सटीके ॥ पृ० १७ पं० ९ ॥ “किमेतस्मादेवासनतरः समाधिर्भवति । अथास्य लाभे भवत्यन्योऽपि कश्चिदुपायो न वेति -- ईश्वरप्रणिधानाद्वा ॥२३॥ प्रणिधानाद्भक्तिविशेषादावर्जित ईश्वरस्तमनुगृह्णात्यभिध्यानमात्रेण । तदभिध्यानमात्रादपि योगिन आसन्नतर: समाधिलाभः समाधिफलं च भवतीति ॥२३॥ ___ अथ प्रधानपुरुषव्यतिरिक्तः कोऽयमीश्वरो नामेति ? क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ॥२४॥ अविद्यादयः क्लेशाः, कुशलाकुशलानि कर्माणि, तत्फलं विपाकः, तदनुगुणा वासना आशयाः । ते च मनसि वर्तमाना: पुरुषे व्यपदिश्यन्ते, स हि तत्फलस्य भोक्तेति । यथा जयः पराजयो वा योद्धृषु वर्तमान: स्वामिनि व्यदिश्यते । यो ह्यनेन भोगेनापरामृष्टः स पुरुषविशेष ईश्वरः । कैवल्यं प्राप्तास्तर्हि सन्ति च बहवः केवलिन:, ते हि त्रीणि बन्धनानि च्छित्त्वा कैवल्यं प्राप्ताः । ईश्वरस्य च तत्संबन्धो न भूतो न भावी । यथा मुक्तस्य पूर्वा बन्धकोटिः प्रज्ञायते, नैवमीश्वरस्य । यथा वा प्रकृतिलीनस्योत्तरा बन्धकोटि: संभाव्यते, नैवमीश्वरस्य । स तु सदैव मुक्त: सदैवेश्वर इति । योऽसौ प्रकृष्टसत्त्वोपादानादीश्वरस्य शाश्वतिक उत्कर्षः स किं सनिमित्त आहोस्विनिनिमित्त इति ? तस्य शास्त्रे निमित्तम् । शास्त्रं पुन: किंनिमित्तम् ? प्रकृष्टसत्त्वनिमित्तम् । एतयो: २१ For Private & Personal use only Wwwsnelibrary.org Jain Education International
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy