Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
सवृत्तिके धर्मबन्दी
चतुर्थं
परिशिष्टम्
२३०
परदारस्स य विरई ओरालवेउव्वभेयओ दुविहं । एयमिह मुणेयव्वं सदारसंतोस मो एत्थ ||१५||
न
परदार० गाहा। परे आत्मव्यतिरिक्ताः पुरुषास्तथा मनुष्यजात्यपेक्षया देवास्तिर्यञ्चश्च, तेषां दाराः परिणीत-संगृहीतभेदानि कलत्राणि देवीतिरश्च्यश्चेति परदाराः, यद्यप्यपरिगृहीतदेव्यस्तिरश्च्यश्च काश्चित्संग्रहीतुः परिणेतुश्चाभावाद्वेश्याकल्पा भवन्ति तथापि प्रायः परजातीयभोम्यत्वात्परदारा एव ताः, अतस्तेषां परदाराणाम्, इह विरतिशब्दयोगे पञ्चमीप्राप्तावपि षष्ठीनिर्देश: प्राकृतत्वात्, तत एव च दारशब्दस्यैकवचनान्ततां, ततश्च परकलत्रस्यैव विरति: निवृत्तिः, तु वेश्याया अपीत्यर्थः, चतुर्थाणुव्रतं भवतीति प्रक्रमः, चशब्दः समुच्चये, स च स्वदारसन्तोषश्चेत्येवं द्रष्टव्यः, अथवाऽनुक्तसमुच्चये चशब्दः, तेन सर्वस्त्रीणां च परपुरुषस्य च पुरुषसामान्यस्य च विरतिश्चतुर्थाणुव्रतमिति स्यात्, ओरालविउव्वभेयओत्ति ओरालं स्नायुमांसास्थिबद्धं शरीरं समयपरिभाषयोव्यते, यदाह - "मंसट्ठिण्हारुबद्धं ओरालं समयपरिभासा ], तत्पुनरौदारिकमेव, तथा विकुर्वधातुर्विक्रियार्थः सामयिकोऽस्तीति गम्यते, विकुर्वणा वैकुर्विकमित्यादिप्रयोगदर्शनात्, ततश्च विकुर्व्यत इति विकुर्व्यं वैक्रियशरीरम्, तत ओरालविकुर्व्ययोस्ताभ्यां वा भेदो विशेष ओरालविकुर्व्यभेदस्तस्मादौदारिकवैक्रियशरीरभेदादित्यर्थः, दुविहं एयंति द्विविधा द्विप्रकाराः, एतदिति एते परदाराः, प्राकृतत्वेन चात्र 'नपुंसकलि मैकत्वाभ्यां निर्देशः, तत्रैौदारिका नार्यस्तिरश्च्यश्च वैक्रिया विद्याधर्यो देव्यश्च, इह परदारविरतिप्रक्रमे, मुणेयव्वंति ज्ञातव्याः, तथा स्वस्य आत्मनः स्वे वा आत्मीया दाराः स्वदाराः स्वकलत्रं तैः संतोष: संतुष्टि : मैथुनासेवनं प्रति, वेश्यादेरपि वर्जनमिति स्वदारसंतोष:, स च चतुर्थाणुव्रतमिति योजितमेव, इह च प्रथमैकवचनलोपः प्राकृतत्वात्, 'मो' इति निपातः पादपूरणार्थ:, अत्रेति चतुर्थाणुव्रते, वर्जयतीत्युत्तरेण योग:, इति गाथार्थः ॥१५॥ अस्यैवातिचारानाह
Jain Education International
वज्ज इत्तरि अपरिग्गहियागमणं अणंगकीडं च । परवीवाहक्करणं कामे तिव्वाभिलासं च ॥ १६ ॥
वज्जइ० गाहा । वर्जयति परिहरते, किम् ? इत्वरी अयनशीला, भाटीप्रदानेन स्तोककालं परिगृहीता वेश्या, तथाऽपरिगृहीता वेश्यैवागृहीतान्यसत्कभाटिः कुलाङ्गना वा अनाथेति तयोर्गमनं आसेवनमित्वर्यपरिगृहीतागमनम्, तथाऽङ्गं देहावयवो मैथुनापेक्षया योनिर्मेहनं च, तद्व्यतिरिक्तान्यनङ्गानि कुच - कक्षोरु - वदनादीनि तेषु क्रीडा रमणमनङ्गक्रीडा, अथवाऽनङ्गः कामस्तस्य तेन वा क्रीडाऽनङ्गक्रीडा, स्वलिङ्गेन निष्पन्नप्रयोजनस्याहार्यैश्चर्मादिघटितप्रजननैर्योषिदवाच्यदेशासेवनमित्यर्थः, अतस्ताम्, चशब्दः समुच्चये, तथा परेषां स्वापत्यव्यतिरिक्तानां जनानां
For Private & Personal Use Only
विशिष्टानि टिप्पणानि
२३०
www.jainelibrary.org
Loading... Page Navigation 1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379