Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
सवृत्तिके धर्मबिन्दौ
चतुर्थ
परिशिष्टम्
२३४
तेषां च संवत्सरमध्य एव प्रसवेऽधिकद्विपदादिभावाद् व्रतभङ्गः स्यादिति तद्भयात् कियत्यपि काले गते गर्भग्रहणं कारयतो गर्भस्थद्विपदादिभावेन बहिर्गततदभावेन च कथञ्चिद् व्रतभङ्गादतिचारः, तथा कुप्यम् आसन-शयनादिगृहोपस्करस्तस्य यन्मानं तस्य भावेन तत्पर्यायान्तररूपेणातिक्रमोऽतिचारो भवति, यथा किल केनापि दश करोटकानीति कुप्यस्य परिमाणं कृतम्, ततस्तेषां कथञ्चिद् द्विगुणत्वे सति व्रतभङ्गभयात्तेषां द्वयेन द्वयेनैकैकं महत्तरं कारयत: पर्यायान्तरकरणेन सङ्ख्याबाधनाच्चातिचारः, अन्ये त्वाः- भावेन तदर्थित्वलक्षणेन विवक्षितकालावधे: परतोऽहमेतद् ग्रहीष्याम्यतो नान्यस्मै देयमिति पराप्रदेयतया व्यवस्थापयत इति, एते चातिचारा मूलसूत्र एवमधीयन्ते-खेत्तवत्थुपमाणाइक्कमे हिरण्णसुवण्णप्पमाणाइक्कमे[ ] इत्यादि, यथाश्रुतत्वेन चैषामभ्युपगमे भङ्गातिचारयोर्न विशेष: स्यादिति तद्विशेषोपदर्शनार्थमाचार्येण योजनप्रदानेत्यादि भावना दर्शिता, अयमेव चासौ भावार्थों विशिष्टानि यत्संगतं श्रावकधर्मं वक्ष्य इत्याद्यगाथायां वक्तव्यत्वेन प्रतिज्ञातः, एतद्भावनोपदर्शनादेवान्येषां सहसाभ्याख्यानादीनामतिचाराणामनुपदर्शितभावनानामपि
टिप्पणानि भावनोत्प्रेक्षणीया, सा च यथोबोधं केषाञ्चिद्दर्शितैवास्माभिर्दर्शयिष्यते चेति, यच्च क्षेत्रादिपरिग्रहस्य नवविधत्वेन तत्सङ्ख्यातिचारप्राप्तौ पञ्चसङ्ख्यात्वमुक्तं तत्सजातीयत्वेन शेषभेदानामत्रैवान्तर्भावात्, शिष्यहितत्वेन च प्रायः सर्वत्र मध्यमगतेर्विवक्षितत्वात् पञ्चकसङ्ख्ययैवातिचारपरिगणनम्, अतश्चतुःषडादिसङ्ख्ययाऽ- तिचाराणामगणनमुपपन्नमिति गाथार्थः ॥१८॥
उक्तान्यणुव्रतानि, अथैतेषामेवोत्तरगुणानामवसरः, ते च गुणव्रतशिक्षाव्रतरूपाः, तत्र प्रथमगुणव्रताभिधित्सया तावदाह - उदाहोतिरियदिसं चाउम्मासाइकालमाणेण । गमणपरिमाणकरणं गुणव्वयं होइ विन्नेयं ॥१९॥
उडाहो० गाहा।ऊर्ध्वा च उपरि पर्वतादिविषयेऽधश्च ऊर्ध्वविपरीता कूपादौ तिर्यक्च पूर्वादि: ऊर्ध्वाधस्तिर्यक्, तच्च तद्दिक्च ऊर्ध्वाधस्तिर्यग्दिक्, । ततस्तामाश्रित्य गमनपरिमाणकरणमिति सम्बन्धः, अथवा गमनपरिमाणकरणस्यैव विशेषणमेतत्, ऊर्ध्वाधस्तिरश्च्यो दिशो विषयभूता यत्रेति समासात्, ऊर्ध्वाधस्तिर्यग्दिशीति वा, सर्वदिक्ष्वित्यर्थः, अनुस्वारश्चालाक्षणिक इति, चतुर्णा मासानां समाहारश्चतुर्मासम्, तदेव चातुर्मास्यम्, तदादि यत्कालमानं कालपरिमाणं तत्तथा, तेन चातुर्मास्यादिकालमानेन, गमनस्य गते: परिमाणकरणम् इयत: क्षेत्रात्परतो न गन्तव्यमित्येवं मानविधानं गमनपरिमाणकरणम्, गुणाय अणुव्रतानामुपकाराय व्रतं गुणव्रतम्, भवति ह्यणुव्रतानां गुणव्रतेभ्य उपकारः, विवक्षितक्षेत्रादिभ्योऽन्यत्र हिंसादिनिषेधादिति, भवति वर्तते,
| २३४ विज्ञेयं ज्ञातव्यम्, प्रथममिति गम्यत इति गाथार्थः ॥१९॥ ।
Jain Education International
For Private & Personal use only
www.jainelibrary.org
Loading... Page Navigation 1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379