SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम् २३४ तेषां च संवत्सरमध्य एव प्रसवेऽधिकद्विपदादिभावाद् व्रतभङ्गः स्यादिति तद्भयात् कियत्यपि काले गते गर्भग्रहणं कारयतो गर्भस्थद्विपदादिभावेन बहिर्गततदभावेन च कथञ्चिद् व्रतभङ्गादतिचारः, तथा कुप्यम् आसन-शयनादिगृहोपस्करस्तस्य यन्मानं तस्य भावेन तत्पर्यायान्तररूपेणातिक्रमोऽतिचारो भवति, यथा किल केनापि दश करोटकानीति कुप्यस्य परिमाणं कृतम्, ततस्तेषां कथञ्चिद् द्विगुणत्वे सति व्रतभङ्गभयात्तेषां द्वयेन द्वयेनैकैकं महत्तरं कारयत: पर्यायान्तरकरणेन सङ्ख्याबाधनाच्चातिचारः, अन्ये त्वाः- भावेन तदर्थित्वलक्षणेन विवक्षितकालावधे: परतोऽहमेतद् ग्रहीष्याम्यतो नान्यस्मै देयमिति पराप्रदेयतया व्यवस्थापयत इति, एते चातिचारा मूलसूत्र एवमधीयन्ते-खेत्तवत्थुपमाणाइक्कमे हिरण्णसुवण्णप्पमाणाइक्कमे[ ] इत्यादि, यथाश्रुतत्वेन चैषामभ्युपगमे भङ्गातिचारयोर्न विशेष: स्यादिति तद्विशेषोपदर्शनार्थमाचार्येण योजनप्रदानेत्यादि भावना दर्शिता, अयमेव चासौ भावार्थों विशिष्टानि यत्संगतं श्रावकधर्मं वक्ष्य इत्याद्यगाथायां वक्तव्यत्वेन प्रतिज्ञातः, एतद्भावनोपदर्शनादेवान्येषां सहसाभ्याख्यानादीनामतिचाराणामनुपदर्शितभावनानामपि टिप्पणानि भावनोत्प्रेक्षणीया, सा च यथोबोधं केषाञ्चिद्दर्शितैवास्माभिर्दर्शयिष्यते चेति, यच्च क्षेत्रादिपरिग्रहस्य नवविधत्वेन तत्सङ्ख्यातिचारप्राप्तौ पञ्चसङ्ख्यात्वमुक्तं तत्सजातीयत्वेन शेषभेदानामत्रैवान्तर्भावात्, शिष्यहितत्वेन च प्रायः सर्वत्र मध्यमगतेर्विवक्षितत्वात् पञ्चकसङ्ख्ययैवातिचारपरिगणनम्, अतश्चतुःषडादिसङ्ख्ययाऽ- तिचाराणामगणनमुपपन्नमिति गाथार्थः ॥१८॥ उक्तान्यणुव्रतानि, अथैतेषामेवोत्तरगुणानामवसरः, ते च गुणव्रतशिक्षाव्रतरूपाः, तत्र प्रथमगुणव्रताभिधित्सया तावदाह - उदाहोतिरियदिसं चाउम्मासाइकालमाणेण । गमणपरिमाणकरणं गुणव्वयं होइ विन्नेयं ॥१९॥ उडाहो० गाहा।ऊर्ध्वा च उपरि पर्वतादिविषयेऽधश्च ऊर्ध्वविपरीता कूपादौ तिर्यक्च पूर्वादि: ऊर्ध्वाधस्तिर्यक्, तच्च तद्दिक्च ऊर्ध्वाधस्तिर्यग्दिक्, । ततस्तामाश्रित्य गमनपरिमाणकरणमिति सम्बन्धः, अथवा गमनपरिमाणकरणस्यैव विशेषणमेतत्, ऊर्ध्वाधस्तिरश्च्यो दिशो विषयभूता यत्रेति समासात्, ऊर्ध्वाधस्तिर्यग्दिशीति वा, सर्वदिक्ष्वित्यर्थः, अनुस्वारश्चालाक्षणिक इति, चतुर्णा मासानां समाहारश्चतुर्मासम्, तदेव चातुर्मास्यम्, तदादि यत्कालमानं कालपरिमाणं तत्तथा, तेन चातुर्मास्यादिकालमानेन, गमनस्य गते: परिमाणकरणम् इयत: क्षेत्रात्परतो न गन्तव्यमित्येवं मानविधानं गमनपरिमाणकरणम्, गुणाय अणुव्रतानामुपकाराय व्रतं गुणव्रतम्, भवति ह्यणुव्रतानां गुणव्रतेभ्य उपकारः, विवक्षितक्षेत्रादिभ्योऽन्यत्र हिंसादिनिषेधादिति, भवति वर्तते, | २३४ विज्ञेयं ज्ञातव्यम्, प्रथममिति गम्यत इति गाथार्थः ॥१९॥ । Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy