________________
सवृत्तिके धर्मबिन्दौ
चतुर्थ
परिशिष्टम्
२३३
तत्र च वित्ताद्यविरोधतो वृत्त्याद्यविरोधतो वेति व्याख्येयम्, किमित्याह-चित्रं बहुप्रकारमेतम्, तथाहि-कश्चिनिःस्वोऽपि विपुलचित्तो भवति, अन्यस्त्वन्यथा, तथा कस्यचिद्भरि वित्तमन्यस्य स्तोकम्, तथा क्वचिद्देशेऽत्यन्तं धान्यचतुष्पदादिसङ्ग्रहो विधीयते अन्यत्र तु न तथा, तथा कोऽपि राजवंश्योऽन्यो ब्राह्मणवणिग्वंश्यादिः तस्य च प्रायो राज्यादिसंभवासंभवौ स्त:, इत्येवं स्वचित्तवित्तादीनामविरोधेनानेकविधपुंभिस्तद्विधीयमानमनेकधा भवतीति गाथार्थ: ॥१७॥ अत्रातिचारानाह -
खेत्ताइहिरण्णाईधणाइदुपयाइकुप्पमाणकमे । जोयणपयाणबंधणकारणभावेहिं णो कुणइ ॥१८॥ खेत्त० गाहा । क्षेत्रादिहिरण्यादिधनादिद्विपदादिकुप्यमानक्रमान्, क्षेत्रादिषु विषयेषु यद्गृहीतं परिमाणं तदतिक्रमानित्यर्थः, विशिष्टानि योजनप्रदानबन्धनकारणभावैः, एभिर्योजनादिभिर्यथासङ्ख्यं न करोति न विधत्ते इति समुदायार्थः, तत्र क्षेत्रं सस्योत्पत्तिभूमिः, तच्च सेतुकेतूभयभेदात् विपणन त्रिविधम्, तत्र सेतुक्षेत्रमरघट्टादिसेक्यम्, केतुक्षेत्रं पुनराकाशोदकनिष्पाद्यम्, उभयक्षेत्रं तु तदुभयनिष्पाद्यम्, आदिशब्दाद्वास्तुग्रहः, वास्तु च अगारंग्रामनगरादि च, तत्रागारं त्रिविधम्-खातमुच्छ्रितं खातोच्छ्रितं च, तत्र खातं भूमिगृहादि, उच्छ्रितमुच्छ्रयेण कृतम्, उभयं भूमिगृहस्योपरि प्रासादः, एतयोश्च क्षेत्रवास्तुनोः प्रमाणस्य योजनेन क्षेत्रान्तरादिमीलनेनातिक्रम: अतिचारो भवति, तथाहि-किलैकमेव मे क्षेत्रं वास्तु वेत्यभिग्रहवतोऽधिकतरतदभिलाषे सति व्रतभङ्गभयात् प्राक्तनक्षेत्रादिप्रत्यासन्नं तद् गृहीत्वा पूर्वेण सह तस्यैकत्वकरणार्थं वृत्याद्यपनयनेन तत् तत्र योजयतो व्रतसापेक्षत्वात्, कथञ्चिद्विरतिबाधनाच्चातिचार इति, तथा हिरण्यं रजतम् आदिशब्दात्सुवर्णम्, तत्परिमाणस्य प्रदानेन वितरणेनातिक्रम: अतिचारो भवति, यथा केनापि चतुर्मासाद्यवधिना हिरण्यादिपरिमाणं विहितम्, तत्र च तेन तुष्टराजादेः सकाशात्तदधिकं तल्लब्धम्, तच्चान्यस्मै व्रतभङ्गभयात्प्रददाति पूर्णेऽवधौ ग्रहीष्यामीति भावनयेति व्रतसापेक्षत्वादतिचारः, तथा धनं गणिम-धरिम-मेय-परिच्छेद्यभेदाच्चतुर्विधम्, तत्र गणिमं पूगफलादि, धरिमं गुडादि, मेयं घृतादि, परिच्छेद्यं माणिक्यादि, आदिशब्दाद्धान्यं व्रीह्यादि, एतत्प्रमाणस्य बन्धनतोऽतिक्रमः अतिचारो भवति, यथा हि किल कृतधनादिपरिमाणस्य कोऽपि लभ्यमन्यद्वा धनादि ददाति, तच्च व्रतभमभयाच्चतुर्मास्यादिपरतो गृहगतधनादिविक्रये वा कृते ग्रहीष्यामीति भावनया बन्धनेन नियन्त्रणेन रज्ज्वादिसंयमनेन सत्यकारदानादिरूपेण वा स्वीकृत्य तद्नेह एव तत् स्थापयतोऽतिचारः, तथा द्विपदं पुत्र-कलत्र-दासी-दास-कर्मकर-शुक-सारिकादिरूपम्, आदिशब्दाद्रवादिचतुष्पदपरिग्रहः, तेषां यत् परिमाणं तस्य कारणेन गर्भाधानविधापनेनातिक्रमः अतिचारो भवति, यथा किल केनापि संवत्सराद्यवधिना द्विपद-चतुष्पदानां परिमाणं कृतम्,
Jan Education International
For Private & Personal Use Only
www.jainelibrary.org.