________________
सवृत्तिके धर्मबिन्दौ चतुर्थं
परिशिष्टम्
र तथा स्यादिलितरिक्तेष्वेव न्याय्यम्, अन्यथाSायाभिग्रहमात्रं ददत्यपि गीताधारकारणमिति ?, सत्यम्,
२३२
विशिष्टानि टिप्पणानि
भवति, तद् व्रती च मन्यते 'विवाह एवायं मया विधीयते, न मैथुन'मिति, ततो व्रतसापेक्षत्वादतिचार इति ।
ननु परविवाहकरणे कन्याफललिप्सा कारणमुक्तं तत्र किं सम्यग्दृष्टिरसौ व्रती मिथ्यादृष्टिा ?, यदि सम्यग्दृष्टिस्तदा तस्य न सा संभवति, सम्यग्दृष्टित्वादेव, अथ मिथ्यादृष्टिस्तदा मिथ्यादृष्टेरणुव्रतानि न भवन्त्येवेति कथं सा परविवाहकरणलक्षणातिचारकारणमिति ?, सत्यम्, केवलमव्युत्पन्नावस्थायां साऽपि संभवति, किंच-यथाभद्रकस्य मिथ्यादृशोऽपि सन्मार्गप्रवेशनायाभिग्रहमात्रं ददत्यपि गीतार्थाः, यथाऽऽर्यसुहस्ती रकस्य सर्वविरतिं दत्तवान्, इदं च परविवाहकरणवर्जनं स्वापत्यव्यतिरिक्तेष्वेव न्याय्यम्, अन्यथाऽपरिणीता कन्या स्वच्छन्दचारिणी स्यात्, ततश्च शासनोपघात: स्यात्, विहितविवाहा तु कृतव्रतबन्धत्वेन न तथा स्यादिति, यच्चोक्तं 'स्वापत्येष्वपि सङ्ख्याभिग्रहो न्याय्यः' तच्चिन्तकान्तरसद्भावे न्याय्यं सुतसङ्ख्यापूर्ती चापत्यान्तरोत्पत्तिपरिहारोपायत इति, अपरे पुनराहु:-पर: अन्यो यो विवाहः आत्मन एव विशिष्टसंतोषाभावाद्योषिदन्तराणि प्रति विवाहान्तरकरणं तत् परविवाहकरणम्, अयं च स्वदारसंतोषिण इति, स्त्रियास्तु स्वपुरुषसंतोषपरपुरुषवर्जनयोर्न भेदः, स्वपुरुषव्यतिरेकेणान्येषां सर्वेषां परपुरुषत्वात्, ततोऽनङ्गक्रीडादयस्त्रयः स्वदारसंतोषिण इव स्वपुरुषविषये स्युः, आद्यस्तु यदा स्वकीयपतिः सपत्न्या वारकदिने परिगृहीतो भवति तदा सपत्नीवारकमतिक्रम्य तं परिभुजानाया अतिचास, द्वितीयस्त्वतिक्रमादिना परपुरुषमभिसरन्त्याः समवसेय:, ब्रह्मचारिणस्त्वतिक्रमादिनाऽतिचार इति गाथार्थः ॥१६॥ उक्तं सातिचारं चतुर्थमणुव्रतमधुना पञ्चममाह- .
इच्छापरिमाणं खलु असयारंभविणिवित्तिसंजणगं । खेत्ताइवत्थुविसयं चित्तादविरोहओ चित्तं ॥१७।।
इच्छा० गाहा । इच्छा परिग्राह्यवस्तुविषया वाञ्छा तस्यास्तया वा परिग्राह्यवस्तूनां परिमाणम् इयत्ता इच्छापरिमाणम् । खलुक्यालङ्कारे, पञ्चमाणुव्रतं भवतीति प्रक्रमः, तच्चेच्छापरिमाणं किंफलमित्याह-असदारम्भविनिवृत्तिसंजनकम् असुन्दरारम्भाप्रवृत्तिनिबन्धनम्, भवति हीच्छापरिमाणे कृते इच्छाविषयीकृतकतिपयपदार्थानां किञ्चिच्छुभव्यापाररपि प्राप्तेरसुन्दरेतरव्यापारेभ्यो विनिवृत्तिः, यतः प्रभूतार्थप्राप्त्यर्थमेव भूतघाताद्यसुन्दरव्यापारेषु प्राय: प्राणिनः प्रवर्तन्त इति, तच्च क्षेत्रादिवस्तुविषयम् क्षेत्रादीनि भूविशेषप्रभृतीति वस्तूनि अर्थो विषयो गोचरोऽस्येति विग्रहः, तदुक्तम्-धणं धन्नं खेत्तं वत्थु रुप्पं सुवण्णं कुवियं दुप्पयं चउप्पयं च [ इत्यादि, अत्र चादिशब्दः प्रकारवचनः, क्षेत्रादयः क्षेत्रप्रकारा धनादय इत्यर्थः, चित्तं मन आदिर्येषां वित्त-देश-वंशादीनां ते तथा तेषामविरोध: आनुकूल्यमानुरूप्यं चित्ताद्यविरोधस्तस्माच्चित्ताद्यविरोधतः, वित्तादविरोहओत्ति पाठान्तरम्,
| २३२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org