SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ सवत्तिके धर्मबिन्दौ चतर्थं परिशिष्टम् २३१ विवाहकरणं कन्याफललिप्सया स्नेहसम्बन्धादिना वा परिणयनविधानं परविवाहकरणम्, इह च स्वापत्येष्वपि सङ्ख्याभिग्रहो न्याय्यः, तथा कामे कामोदयजन्ये मैथुने, अथवा 'सूचनात्सूत्र' मिति न्यायात् कामे कामभोगेषु, तत्र कामौ शब्दरूपे भोगाः गन्धरसस्पर्शास्तेषु तीव्राभिलाषः अत्यन्ततदध्यवसायित्वम्, यतो वाजीकरणादिनाऽनवरतसुरतसुखार्थं मदनमुद्दीपयतीत्यतस्तम्, चशब्दः समुच्चये, एतानि समाचरन्नतिचरति चतुर्थाणुव्रतमत एतान् वर्जयतीति, इह चाद्यावतिचारौ स्वदारसंतोषिण एव, नेतरस्य शेषास्तु द्वयोरपीति हरिभद्रसूरिमतम्, एतदेव च सूत्रानुपाति, यदाह - "सदारसंतोसस्स इमे पंच अइयारा" [ ] इत्यादि, भावना चैवम् अत्र भाटीप्रदानेनेत्वरकालस्वीकारेण स्वकलत्रीकृत्य वेश्यां भुञ्जानस्य स्वकीयकल्पनया स्वदारत्वेन व्रतसापेक्षचित्तत्वान्न भङ्गः अल्पकालपरिग्रहाच्च वस्तुतोऽस्वकलत्रत्वाद्भङ्ग इति भङ्गाभङ्गरूपोऽतिचारः, अपरिगृहीतागमनं त्वनाभोगादिनाऽतिक्रमादिना वाऽतिचार:, परदारवर्जिनो नैतावतिचारौ, इत्वरकालपरिगृहीतापरिगृहीतयोर्वेश्यात्वेनानाथकुलाङ्गनायास्त्वनाथतयैवापरदारत्वादिति, अपरे त्वाहुः - इत्वरपरिगृहीतागमनं स्वदारसंतोषवतोऽतिचारः, अपरिगृहीतागमनं तु परदारवर्जिनः, तत्र प्रथमभावना पूर्ववत्, द्वितीयभावना त्वेवम्- अपरिगृहीता नाम वेश्या, तां यदा गृहीतान्यसत्कभाटिकामभिगच्छति तदा परदारगमनजन्यदोषसंभवात्कथंचित्परदारत्वाच्च भङ्गः वेश्यात्वाच्चाभङ्ग इत्यतिचार इति, अन्ये पुनरन्यथा प्राहुः- “परदारवज्जिणो पंच होंति तिन्नि उ सदारसंतुट्ठे । इत्थीए तिन्नि पंच व भंगविगप्पेहिं नायव्वं ॥ १॥ " [ ], इह भावना-परेणेत्वरकालं या परिगृहीता वेश्या तद्गमनमतिचारः परदारवर्जिनः, कथंचित्तस्याः परदारत्वात्, तथाऽपरिगृहीताया अनाथकुलाङ्गनाया यद्गमनं तदपि तस्यैवातिचारः, लोके परदारत्वेन तस्या रूढत्वात्, तत्कामुककल्पनया च परस्य भर्त्रादेरभावेनापरदारत्वात्, शेषास्तूभयोरपि स्युः, तथाहि - स्वदारसंतोषिणः स्वकलत्रेऽपि तदितरस्य तु वेश्यास्वकलत्रयोरपि यदनङ्गरतं तत्साक्षादप्रत्याख्यातमपि न विधेयम्, यतोऽसावत्यन्तभीरुतया ब्रह्मचर्यं चिकीर्षुरपि यदा वेदोदयासहिष्णुतया तद्विधातुं न शक्नोति तदा यापनामात्रार्थं स्वदारसंतोषादि प्रतिपद्यते, मैथुनमात्रेणैव च यापनायाः संभवादनङ्गरतमर्थतः प्रत्याख्यातमेव एवं परविवाहतीव्रकामाभिलाषावपीत्यतः कथञ्चित्प्रत्याख्यातप्रवृत्तेरतीचारता तेषाम्, अन्ये त्वनङ्गक्रीडामेवं भावयन्ति - स हि निधुवनमेव व्रतविषय इति स्वकीयकल्पनया तत् परिहरन् स्वदार संतोषी वेश्यादौ परदारवर्जकस्तु परदारेष्वालिङ्गनादिरूपामनङ्गक्रीडां कुर्वन् कथञ्चिदेवातिचरति व्रतं व्रतसापेक्षत्वादिति, तथा स्वदारसंतोषवता स्वकलत्रादितरेण च स्वकलत्रवेश्याभ्यामन्यत्र मनोवाक्कायैमैथुनं न कार्यं न च कारणीयमित्येवं यदा प्रतिपन्नं व्रतं भवति तदा परविवाहकरणतस्तत्कारणमर्थतोऽनुष्ठितं Jain Education International For Private & Personal Use Only विशिष्टानि टिप्पणानि २३१ www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy