________________
मस्तम्, अनेन
त्योचारा भवन्ति, अन्यथा प्रवृत्तानं
उभयं च उक्तद्वयमका
वात द्वन्द्वः, तैर्विशद्ध
मात्यवविहितदिव्रतस्यैव संवत्वय गमनत: आनयनादिभि
विशिष्टानि टिप्पणानि
चव त्ति तथैव तेनैव
वज्जइ उहाइक्कममाणयणप्पेसणोभयविसुद्धं । तह चेव खेत्तवुझिं कहिंचि सइअंतरद्धं च ॥२०॥ सवत्तिके |
वज्जइ० गाहा । वर्जयति परिहरते, ऊर्ध्वादिक्रममिति ऊर्ध्वादिषु-ऊर्ध्वाधस्तिरश्चीषु दिक्षु क्रमः क्रमणम्, विवक्षितक्षेत्रात् परत इति गम्यते, धर्मबिन्दौ अत ऊर्ध्वादिक्रमस्तम्, अनेन त्रयोऽतिचाराः प्रतिपादिताः, तद्यथा-उदिसिपमाणाइक्कमे अहोदिसिपमाणाइक्कमे तिरियदिसिपमाणाइक्कमे चतुर्थं [ ], एते चानाभोगातिक्रमादिभिरेवातिचारा भवन्ति, अन्यथा प्रवृत्तौ तु भङ्गा एव, एतं चोर्ध्वादिदिगतिक्रमं कथं वर्जयतीत्याह-आनयनं परिशिष्टम्
च विवक्षितक्षेत्रात्परत: स्थितस्य वस्तुनः परेण स्वक्षेत्रे प्रापणं प्रेषणं च ततः परेण नयनं उभयं च उक्तद्वयमप्येकदैवेति द्वन्द्वः, तैर्विशुद्धं निर्दोषमानयनप्रेषणोभयविशुद्धं तद्यथा भवतीति क्रियाविशेषणम्, विवक्षितक्षेत्रात्परत: स्वयं गमनत: आनयनादिभिश्च प्रकारैर्दिकपरिमाणातिक्रमं वर्जयतीति
भावना, अयं चानयनादावतिक्रमो न कारयामीत्येवंविहितदिग्व्रतस्यैव संभवति, तदन्यस्य त्वानयनादावनतिक्रम एव, तथाविधप्रत्याख्यानाभावादिति, २३५ तह चेव त्ति तथैव तेनैव प्रकारेण गमनानयनादिविशुद्धतालक्षणेन क्षेत्रस्य पूर्वादिदेशस्य दिव्रतविषयस्य हस्वस्य सतो वृद्धिः वर्धनं
पश्चिमादिक्षेत्रान्तरपरिमाणप्रक्षेपेण दीर्धीकरणं क्षेत्रवृद्धिस्ताम्, किल केनापि पूर्वापरदिशोः प्रत्येकं योजनशतं गमनपरिमाणं कृतम्, स चोत्पन्नप्रयोजन एकस्यां दिशि नवति व्यवस्थाप्यान्यस्यां तु दशोत्तरं योजनशतं करोति, उभाभ्यामपि प्रकाराभ्यां योजनशतद्वयरूपस्य परिमाणस्याव्याहतत्वात्, इत्येवमेकत्र क्षेत्रं वर्धयतो व्रतसापेक्षत्वादतिचार इति, तथा कथञ्चित् केनापि प्रकारेणातिव्याकुलत्वप्रमादित्वमत्यपाटवादिना स्मृतेः स्मरणस्य योजनशतादिरूपदिक्परिमाणविषयस्यान्तर्धा भ्रंशः स्मृत्यन्तर्धा ताम्, चशब्द: समुच्चये, केनचित् क्लि पूर्वस्यां दिशि योजनशतरूपं परिमाणं कृतमासीत्, गमनकाले च स्पष्टतया न स्मरति-किं शतं परिमाणं कृतमुत पञ्चाशत् ?, तस्य चैवं पञ्चाशतमतिक्रामतोऽतिचारः, शतमतिक्रामतो भगः, सापेक्षत्वानिरपेक्षत्वाच्चेति गाथार्थः, इह वृद्धसम्प्रदाय:-ऊर्ध्वं यत्प्रमाणं गृहीतं तस्योपरि पर्वतशिखरे वृक्षे वा मर्कट: पक्षी वा वस्त्रमाभरणं वा गृहीत्वा व्रजेत्, तत्र तस्य न कल्पते गन्तुम्, यदा तु तत्पतितमन्येन वाऽऽनीतं तदा कल्पते ग्रहीतुम्, एतत्पुनरष्टापदोज्जयन्तादिषु भवेत्, एवमध: कूपादिषु विभाषा, तथा तिर्यक् यत्प्रमाणं गृहीतं तत्रिविधेन करणेन नातिक्रमितव्यम्, क्षेत्रवृद्धिश्च न कर्तव्या, कथम् ?, असौ पूर्वेण भाण्डं गृहीत्वा गतो यावत्तत्परिमाणम्, ततः परतो भाण्डमघु लभत इति कृत्वा अपरेण यानि योजनानि तानि पूर्वदिक्परिमाणे क्षिपति, यद्यनाभोगात् परिमाणमतिक्रान्तो भवेत्तदा निवर्तितव्यम्, ज्ञाते वा न गन्तव्यम्, अन्योऽपि न विसर्जनीयः, अनाज्ञया कोऽपि गतो भवेत्तदा यत्तेन लब्धं स्वयं विस्मृत्य गतेन वा तन्न गृह्यत इति ॥२०॥ उक्तं सातिचारं प्रथमं गुणव्रतं, अधुना द्वितीयमाह -
। २३५
Jain Education International
For Private & Personal use only
wwwww.jainelibrary.org