SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम् २३६ वज्जणमणंतगुंबरिअच्वंगाणं च भोगओ माणं । कम्मयओ खरकम्माइयाण अवरं इमं भणियं ॥२१॥ वज्जण गाहा । इदं किल द्वितीयगुणव्रतमुपभोगपरिभोगव्रताभिधानं द्विधा भवति-भोजनत: कर्मतश्च, तत्र उपेति सकृदन्तर्वा भोजनमुपभोग: अशनादीनां भोगः, उपभुज्यत इति वोपभोग: अशनादिरेव, परि आवृत्त्या बहिर्वा भोजनं परिभोगो वस्त्रादिभोगः, परिभुज्यत इति वा परिभोगो वस्त्रादिरेव, तत्रोपभोगपरिभोगयोरासेवाविशेषयोर्वस्तुविशेषयोः तदुपादानभूतकर्मणां वोपचारादुपभोगादिशब्दवाच्यानां व्रतमुपभोगपरिभोगव्रतम्, तत्र पूर्वार्धेन भोजनतस्तावदिदमाह-वर्जनं परिहरणं अनन्तकमिति अनन्तकाय: प्रवचनप्रसिद्धः, यथा-सव्वा य कंदजाई सूरणकंदो य वज्जकंदो य । अल्लहलिद्दा य तहा अल्लं तह अल्लकच्चूरो ॥१॥[ ] इत्यादि, उदुंबरीति वटपिप्पलोदुम्बरप्पक्षकदुम्बरफलानि समयभाषयोच्यन्ते, तथाऽत्यक्षानीति विशिष्टानि अतिशायीनि भोगस्य कारणान्यवयवा वा मधुमद्यमांसादीनि रात्रिभोजनम्रक्चन्दनाङ्गनादीनि वा, एतेषां च द्वन्द्वः, अतस्तेषामनन्तकोदुम्बर्यत्यङ्गानाम्, टिप्पणानि उपलक्षणत्वाच्चैषां समस्ताशनादिद्रव्याणां चेति दृश्यम्, चशब्दस्योत्तरत्र सम्बन्धः, भोगतो भोजनत उपभोगपरिभोगावाश्रित्यापरं व्रतमिति योगः, तथा मानं च, न केवलमनन्तकायादीनां वर्जनं भोजनतो व्रतम्, मानं च परिमाणं च तेषां व्रतमिति, अथ कर्मतस्तेदवाह-कम्मयउत्ति कर्म जीविकार्थ आरम्भः, कर्मैव कर्मकम्, तस्मात् कर्मकत:, तदाश्रित्य खरकर्मादीनां निस्त्रिंशजनोचितकठोरारम्भाणां कोट्टपालगुप्तिपालकर्मादीनां, आदिशब्दादङ्गारकर्मादीनांच वर्जनं चेति प्रक्रम:, अपरंअन्यद् द्वितीयमिदंगुणव्रतंभणितंप्रतिपादितं, पूर्वाचारिति गम्यते, तथा च वृद्धसम्प्रदाय:-भोजनत: श्रावक उत्सर्गेण प्रासुकमेषणीयमाहारमाहारयेत्, तस्यासद्भावेऽनेषणीयमपि सचित्तवर्जम्, तदसत्त्वेऽनन्तकाय-बहुबीजकानि परिहरेत्, तत्राशने । आर्द्रक-मूलक-मांसादि, पाने मांसरस-मद्यादि, खादिमे पुनरुदुम्बरपञ्चकादि, स्वादिमे तु मध्वादि, एवं परिभोगेऽपि वस्त्रादौ, तत्र स्थूलधवलाल्पमूल्यानि परिमितानि च वस्त्राणि परिभुञ्जीत, शासनप्रभावनार्थं वा वराणि वरतराणि यावद्देवदूष्याण्यपि, नवरं भोगे परिमाणं कुर्यादिति । कर्मतोऽपि यद्यकर्मा न शक्नोति जीवितुं तदाऽत्यन्तसावधानि परिहरेत्, अत्रापि सकृदेव यत्क्रियते कर्म प्रहरव्यवहरणादि विवक्षया तदुपभोगोऽभिधीयते, पौन:पुन्येन यत्पुनस्तत्परिभोग इति, अन्ये पुनः कर्मपक्षे उपभोगपरिभोगयोजनं न कुर्वन्ति, उपभोगपरिभोगव्रते कर्मण: पुनरुपन्यास उपभोगादिकारणभावेनेति गाथार्थ: ॥२१॥ उभयरूपेऽप्यत्रातिचारानाह सच्चित्तं पडिबद्धं अपउलदुपओलतुच्छभक्खणयं । वज्जइ कम्मयओऽवि य इत्थं अंगालकम्माई ॥२२॥ २३६ Jain Education international For Private & Personal use only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy