Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
सवृत्तिके
धर्मबिन्दी चतुर्थ
परिशिष्टम्
२२९
योगो हरणक्रियायां प्रेरणं हरत यूयम्' इत्यभ्यनुज्ञा तस्करयोगः, स्तेनाहृतं च तस्करयोगश्चेति समाहारद्वन्द्वस्तत्, तथा विरुद्धः स्वकीयस्य राज्ञः प्रतिपन्थी तस्य राज्यं कटकं देशो वा विरुद्धराज्यम्, तद्वर्जयति, गमनत इति शेषः, चशब्द: समुच्चये, तथा कूटा प्रसिद्धस्वभावापेक्षया न्यूनाऽधिका वा तुला प्रतीता कूटतुला, सा च मानं च न्यूनमधिकं वा कुडवादि कूटतुलाकूटमानं तद् वर्जयतीति योगः, तथा तेनाधिकृतेन व्रीह्यादिना घृतादिना वा प्रतिरूपं सदृशं पलंज्यादि वसादि वा द्रव्यं यत्र व्यवहारे स तत्प्रतिरूपः, तत्प्रतिरूपेण वा सुवर्णादिसदृशेन युक्तिसुवर्णादिना द्रव्येण यो व्यवहार: स तदभेदोपचारात्तत्प्रतिरूप एवोच्यते, अतस्तं तत्प्रतिरूपम्, चशब्दः समुच्चये, व्यवहारं विक्रयं वर्जयति, यत एतानि समाचरन्नतिचरति तृतीयाणुव्रतम्, अतिचारभावना चैवम्-स्तेनाहृतं काणक्रयेण लोभदोषात् प्रच्छन्नं गृह्णश्चौरो भवति, यदाह-चौरश्चौरापको मंत्री, भेदज्ञ: काणकक्रयी । अन्नदः स्थानदश्चैव, विशिष्टानि चौर: सप्तविधः स्मृतः ॥१॥[ ], ततश्चौर्यकरणाद् व्रतभको वाणिज्यमेव मया विधीयते न चोरिकेत्यध्यवसायेन च व्रतानपेक्षत्वाभावादभा
टिप्पणानि इति भकाभारूपोऽतिचारः, तस्करप्रयोगस्तु यद्यपि चौर्यं न करोमि न कारयामीत्येवंप्रतिपन्नव्रतस्य भङ्ग एव, तथापि 'किमधुना यूयं निर्व्यापारास्तिष्ठथ ? यदि वो भक्तकादि नास्ति तदाहं तद्ददामि, भवदानीतमोषस्य वा यदि विक्रायको न विद्यते तदाऽहं विक्रेष्ये' इत्येवंविधवचनैश्चौरान् व्यापारयत: स्वकल्पनया तद्व्यापारणं परिहरतो व्रतसापेक्षस्यासावतीचार इति, विरुद्धराज्यातिक्रमस्तु यद्यपि स्वस्वामिनाऽननुज्ञातस्य परकटकादिप्रवेशस्य “सामीजीवादत्तं तित्थयरेणं तहेव य गुरूहि । ] इत्यदत्तादानलक्षणयोगेन विरुद्धराज्यातिक्रमकारिणां च चौर्यदण्डयोगेनादत्तादानरूपत्वान एव तथापि विरुद्धराज्यातिक्रमं कुर्वता मया वाणिज्यमेव कृतम्, न चौर्यमिति भावनया व्रतसापेक्षत्वात् लोके च चौरोऽयमिति व्यपदेशाभावादतिचारोऽयमिति, तथा कूटतुलादिव्यवहारस्तत्प्रतिरूपकव्यवहारश्च परव्यंसनेन परधनग्रहणरूपत्वाद्भङ्ग एव, केवलं क्षत्रखननादिकमेव चौर्य कूटतुलादिव्यवहारतत्प्रतिरूपव्यवहारौ तु वणिक्कलैवेति स्वकीयकल्पनया व्रतरक्षणोद्यततयाऽतिचार इति, अथवा स्तेनाहृतग्रहणादयः पञ्चाप्यमी व्यक्तचौर्यरूपा एव, केवलं सहसाकारादिनाऽतिक्रम-व्यतिक्रमादिना वा प्रकारेण विधीयमाना अतीचारतया व्यपदिश्यन्त इति, न चैते राजराजसेवकादीनां न संभवन्ति, तथाहि-आद्ययोः स्पष्ट एव तेषां संभवः, विरुद्धराज्यातिक्रमस्तु यदा सामन्तादिः स्वस्वामिनो वृत्तिमुपजीवति तद्विरुद्धस्य च सहायीभवति तदा तस्यातिचारो भवति, कूटतुलादयस्तु यदा भाण्डागारद्रव्याणां विनिमयं कारयति तदा राज्ञोऽप्यतिचारा: स्युरिति गाथार्थः ॥१४॥ उक्तं सातिचारं तृतीयाणुव्रतम्, साम्प्रतं चतुर्थमाह
२२९
Jan Education International
For Private&Personal use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379